कुबलाश्व
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुबलाश्व¦ त्रि॰ कुबलोऽश्वोऽस्य।
१ दुर्वलाश्वयुक्ते सूर्य्यवंश्ये
२ नृपभेदे तस्यधुन्धुमारसंज्ञाप्राप्तिः भा॰ व॰
२०
१ अ॰उक्ता यथा
“मार्कण्डेय उवाच। इक्ष्वाकौ संस्थ्यिते राज-न्! शशादः पृथिवीमिमाम्। प्राप्तः परमधर्म्मात्मा सोऽयो-ध्यायां नृपोऽभवत्। शशादस्य तु दायादः ककुत्स्थो नामवीर्य्यवान्। अनेनाश्चापि काकुत्स्थः पृधुश्चानेनसः सुतः। विष्वगश्वः पृथोः पुत्रस्तस्मादद्रिश्च जज्ञिवान्। अद्रेश्चयुवनाश्वस्तु श्रावस्तस्यात्मजोऽभवत्। तस्य श्रावस्तकोज्ञेयःश्रावस्ती येन निर्म्मिता। श्रावस्तस्य तु दायादोवृहदश्वो महाबलः। वृहदश्वस्य दायादः कुबलाश्व इति[Page2104-a+ 38] स्मृतः। कुबलःश्वस्य पुत्राणां सहस्राण्येकविंशतिः। सर्वे विद्यासु निष्णाता बलवन्तः सुदारुणाः। कुबलाश्वश्चपितृतो गुणैरभ्यधिकोऽभवत्। समये तं पिता राज्येवृहदश्वोऽभ्यषेचयत्। कुबलाश्वं महाराज। शूरमुत्तम-धार्म्मिकम्। पुत्रसंक्रामितश्रीस्तु वृहदश्वो महीपतिः। जगाम तपसे धीमांस्तपोवनममित्रहा”। इत्युपक्रम्यमधुकैटभयोःसमुत्पत्तिबधकथान्ते
२०
३ अ॰
“मार्कण्डेयौवाच। धुन्धुर्नाम महाराज! तयोःपुत्रोःमहाद्युतिः। स तपोऽतप्यत महत् महावी-र्य्यपराक्रमः। अतिष्ठदेकपादेन कृशो धमनिसन्ततः। तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम्। देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम्। अबध्योऽहं भवेयंवै वर एष वृतो मया। एवं भवतु गच्छेति तमुवाच पि-तामहः। स एवमुक्तस्तत्पादौ मूर्द्ध्नास्पृश्य जगाम ह। स तु धुन्धुर्वरं लब्ध्वा महावीर्य्यपराक्रमः। अनुस्मरन्पितृबधं द्रुतं विष्णुमुपागमत्। स तु देवान् स-गन्धर्वान् जित्वा धुन्धुरमर्षणः। बबाधे सर्वानसकृद्विष्णुंदेवांश्च वै भृशम्। समुद्रे बालुकापूर्णे उज्जालक इतिस्मृते। आगम्य च स दुष्टात्मा तं देशं भरतर्शभ!। वाधते स्म परं शक्त्या तमुतङ्काश्रमं विभो!। अन्तर्भूमिगतस्तत्र बालुकान्तर्हितस्तथा। मधुकैटभयोः पुत्रोधुन्धुर्भीमपराक्रमः। शेते लोकविनाशाय तपोबलमुपा-श्रितः। उतङ्कस्याश्रमाभ्यासे निःश्वसन् पावकार्च्चिषः। एतस्मिन्नेव काले तु राजा सवलवाहनः। उतङ्कविप्रस-हितः कुबलाश्वो महीपतिः। पुत्रैः सह महीपालः। प्रययौ भरतर्षभ!। सहस्रैरेकविंशत्या पुत्राणामरिम-र्द्दनः। कुबलाश्वो नरपतिरन्वितो बलशालिनाम्। तमा-विशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः। उतङ्कस्य नियोगेन लोकानां हितकास्यवा। तस्मिन् प्रयाते दुर्द्धर्षेदिवि शब्दो महानभूत्। एष श्रोमानबध्योऽद्य धुन्धु-मारो भविष्यति। दिव्यैश्च पुष्पैस्तं देवाः समन्तात् पर्य्य-वाकिरन्। देवदुन्दुमयश्चापि नेदुः स्वयमनीरिताः। शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः। विपां-शुलां महीं कुर्वन् ववर्ष च सुरेश्वरः। अन्तरीक्षे विमा-नानि देवतानां युधिमिर!। तत्रैव समवृश्यन्त धुन्धुर्यत्रमहासुरः। कुबलाश्वस्य धुन्धोश्च युद्धं कौतूहलान्विताः। देवगन्धवसहिताः समवैक्षत्महर्षयः। नारायणेन कौरव्य!तेजसाप्यायितस्तदा। स गतो न्रपतिः क्षिप्रं पुत्रैस्तैः[Page2104-b+ 38] सर्वतो दिशम्। अर्णवं खानयामास कुबलाश्वोमहीपतिः। कुबलाश्वस्य पुत्रैश्च तस्मिन् वै बालुकार्णवे। सप्तभिर्द्दिवसैःखात्वा दृष्टो धुन्धुर्म्महाबलः। आसीद्घोरं वपुस्तस्य बा-लुकान्तर्हितं महत्। दीप्यमानो यथा सूर्य्यस्तेजसाभरतर्षभ!। ततो धुन्धुर्म्महाराज! दिशमावृत्यपश्चिमाम्। सुप्तोऽभूद्राजशार्द्दूल! कालानलसम-द्युतिः। कुबलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः। अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्म्मुसलैरपि। पट्टिशैः परिघैःप्रासैः खड्गैश्च विमलैः शितैः। स बध्यमानः सं-क्रुद्धः समुत्तस्थौ महाबलः। क्रुद्धश्चाभक्षयत्तेषां श-स्त्राणि विविधानि च। आस्याद्वमन् पावकं स संव-र्त्तकसमं तदा। तान् सर्वान्नृपतेः पुत्रानदहत् स्वेनतेजसा। मुखजेनाग्निना क्रुद्धो लोकानुद्वर्त्तयन्निव। क्षणेन राजशार्द्दूल! पुरेव कपिलः प्रभुः। सगरस्यात्म-जान् क्रुद्धस्तदद्भुतमिवाभवत्। तेषु क्रोधाग्निदग्धेषुतदा भरतसत्तम!।{??}प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम्। आससाद महातेजाः कुबलाश्वो महीपतिः। तस्य वारि महाराज! सुस्राव बहु देहतः। तदापीयततत्तेजो राजा वारिमयं नृप!। योगी योगेन वह्निञ्चशमयामास वारिणा। ब्रह्मास्त्रेण च राजेन्द्र! दैत्यंक्रूरपराक्रमम्। ददाह भरतश्रेष्ठ! सर्वलोकाभयाय वै। सोऽस्त्रेण दग्ध्वा राजर्षिः कुबलाश्वो महासुरम्। सुर-शत्रुममित्रघ्नं त्रैलोक्येशैवापरः। धुन्धोर्बधात्तदाराजा कुबलाश्वो महामनाः। धुन्धुमार इति ख्यातोनाम्नाऽप्रतिरथोऽभवत्”।
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--Killed Dundhu, the son of अरूरु, on the advice of Uttanka. वा. ६८. ३१.
