सामग्री पर जाएँ

कुब्जः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुब्जः, त्रि, (कु ईषत् उब्ज आर्ज्जवमस्य । उब्ज आर्जवे घञ् शकब्ध्वादिवदुलोपः ।) वायुनोन्नतहृदयः । उन्नतपृष्ठश्च । कुजा इति भाषा । तत्पर्य्यायः । गडुः २ गडुलः ३ इत्यमरः ॥ न्युब्जः ४ गडुरः ५ इति शब्दरत्नावली ॥ तस्य लक्षणमाह । “हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक् । क्रुद्धो वायुर्यदा कुर्य्यात्तदा तं कुब्जमादिशेत्” ॥ इति माधवकरः ॥ यदेत्युक्त्या यदिवेति विकल्पार्थ- स्तेन न पुनरुक्तिदोषः । नन्वन्तरायामः क्रोडनतो भयति वहिरायामः पृष्टनतो भवति ताभ्यामस्य को भेदः । उच्यते । अन्तरायामवहिरायामयोः प्रकृतस्यैवान्तःशरीरस्य वहिःशरीरस्य चावन- मनमत्र तु हृदयं पृष्ठं वा शरीराद्वहिर्भवतीति भेदः ॥ * ॥ अथ चिकित्सा । “वाह्यायामेऽन्तरायामे धनुस्तब्धे च कुब्जके । योज्यं प्रसारिणीतैलं तेन तेषां शमो भबेत् ॥ वातव्याधिषु सामान्या याःक्रियाः कथिताः पुरा । कर्त्तव्या एव ताः सर्व्वास्तैलमेतद्विशेषतः” ॥ इति भावप्रकाशः ॥ (यथा, हरिवंशे ८३ । ३४ । “तान्तु कुब्जां स्थडोर्मध्ये द्व्यङ्गुलेनाग्रपाणिना । शनैः सन्तोडयामास कृष्णो लीलाविधानवित्” ॥ रोगविशेषस्यास्य चिकित्सार्थं वटिकौषधं यथा ॥ * ॥ “रसौ गन्धौ समौ शुद्धौ तालकञ्चाभया तथा । विषं व्योषञ्च कटुकीं वोलजैपालकौ समौ” ॥ “भृङ्गराजरसैमर्द्द्यं स्नुह्यर्कस्वरसैस्तथा । गुञ्जाद्वयं प्रदातव्यं रसः कुब्जविनोदकः ॥ आमवाताढ्यवातादीन् कटीशूलञ्च नाशयेत् । अग्निञ्च कुरुते दीप्तं स्थौल्यानां नाशनं परम्” ॥ कुब्जविनोदो रसः ॥ इति वैद्यकरसेन्द्रसारसंग्रहे वातरोगाधि- कारे ॥ * ॥)

कुब्जः, पुं, (कु ईषदुब्जं आर्जवमस्य । शकन्ध्वादित्वात् साधुः ।) अपामार्गः । इति राजनिर्घण्टः ॥ खङ्गः । इति शब्दमाला ॥

"https://sa.wiktionary.org/w/index.php?title=कुब्जः&oldid=127464" इत्यस्माद् प्रतिप्राप्तम्