कुमारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुमारः, पुं, (कुत्सितो मारः कन्दर्पो यस्मात् ।) कार्त्तिकेयः तदुत्पत्तिविवरणन्तु कार्त्तिकेयशब्दे द्रष्टव्यम् ॥ (तथा महाभारते । १ । ६६ । २३-२४ । “अग्नेः पुत्त्रः कुमारस्तु श्रीमान् शरवणालयः । तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः । कीर्त्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः” ॥ कौ पृथिव्यां मारयति दुष्टान् । कु + मृ + णिच् + अच् ।) नाठ्योक्तौ युवराजः । इत्यमरः ॥ (राज- कुमारः । यथा, रघौ ७ । ६३ । “ततः प्रियोपात्तरसेऽधरौष्ठे निवेश्य दध्मौ जलजं कुमारः” ॥) शुकः । अश्ववारकः । (कुमारयति क्रीडतीति । कुमार-त् क क्रीडने + अच् ।) पञ्चवर्षीयबालकः । (यथा मनौ ७ । १७५ । “कन्यानां सम्प्रदानञ्च कुमाराणाञ्च रक्षणम्” ॥ “तस्यास्तु खल्वमरायाः प्रपतनार्थे खल्वेवमेव- कर्म्मणि क्रियमाणे जातमात्रे ऽस्यैव कुमारस्य कार्य्याण्येतानि कर्म्माणि भवन्ति तद्यथा-अश्म- नोः सङ्घट्टनं कर्णयोर्मूले शीतोदकेनोष्णोदकेन वा सुखपरिषेकः । तथा संक्लेशविहतान् प्राणान् पुनर्लभेत कृष्णकपालिका शूर्पेण चैनमभिनिष्पु- नीयाद् यद् यच्चेष्टं स्यात् यावत् प्राणानां प्रत्यागमं तत्तत् सर्व्वमेव कुर्य्युः । ततः प्रत्यागतप्राणं प्रकृति- भूतमभिसमीक्ष्य स्नानोदकग्रहणाभ्यामुपपाद- येत् । अथास्य ताल्वोष्ठकण्ठ-जिह्वा-प्रमार्ज्जन- मारभेत अङ्गुल्या सुपरिलिखितनखयासुप्रक्षा- लितोपधानकार्पासपिचुमत्या प्रथमं प्रमार्ज्जित- स्यास्यच शिरस्तालू कार्पासपिचुना स्नेहगर्भेण प्रतिच्छादयेत् । ततो ऽस्यानन्तरं कार्यं सैन्धवोप- हितेन सर्पिषा प्रच्छर्द्दनम्” ।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुमारः [kumārḥ], [cf. Uṇ.3.138]
A son, boy; a youth; यदात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः R.3.48.
A boy below five.
A prince, an heir-apparent (especially in dramas); विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् R.12.11; कुमारस्यायुषो बाणः V.5; उपवेष्टुमर्हति कुमारः Mu. 4 (said by Rākṣasa to Malayaketu).
N. of Kārtikeya, the god of war; कुमारकल्पं सुषुवे कुमारम् R.5.36; कुमारो$पि कुमारविक्रमः 3.55.
N. of Agni.
A parrot.
N. of the author of a Dharmaśāstra. -रम् pure gold. -Comp. -जीवः N. of the plant पुत्रंजीव.
पालनः one who takes care of children.
N. of king Śālivāhana.
भृत्या care of young children.
care of a woman in pregnancy or confinement, midwifery; कुमार- भृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि R.3.12. -ललिताf.
delicate love-dalliance.
N. of a metre consisting of seven syllables in a quarter. -लीढः also कुब्जालीढः N. of the founder of a sect. -वाहिन्, -वाहनः a peacock.-व्रतम् a vow of eternal celibacy. -सूः f.
an epithet of Pārvati.
N. of the Ganges. (-m.) an epithet of Agni. -संभवम् N. of Kalidāsa's epic.
