कुमारभृत्या
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुमारभृत्या, स्त्री, (कुमारस्य गर्भस्य निर्विघ्नप्रस- वार्थं गर्भचिकित्साकुशलैः भिषग्भिः धात्र्या वा भृत्या पालनम् ।) गर्भिण्याः परिचर्य्या । इति हारावली ॥ तत्पर्य्यायः । बालतन्त्रम् २ गर्भिण्य- वेक्षणम् ३ । इति त्रिकाण्डशेषः ॥ (यथा, रघुः । ३ । १२ । “कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्म्मणि । पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रितामिव” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुमारभृत्या¦ स्त्री भृ--क्यप् भृत्या भरणम्
६ त॰। कुमार-रक्षणोपायभूते सुश्रुतोक्ते कौमारभृत्याख्ये कौमारतन्त्रे। कुमारभृत्या अधिकृत्यम् प्रवृत्तं तन्त्रम् अण्। कौमारभृत्यकुमाररक्षणोपायज्ञापके तच्छास्त्रांशे।
“शल्यं शालक्यंकायचिकित्सा भूतविद्या कौमारभृत्ये त्यादिना अष्टधा-शास्त्रं विभज्य तल्लक्षणमुक्तं तत्रैव यथा
“कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोध-नार्थं दुष्टस्तन्यग्रहसमुत्थानाञ्च व्याधीनामुपशमनार्थम्। ( विवृतमुत्तरत्र तत्रैव यथा
“नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम्। अपस्मार-शकुन्योञ्च रेवत्याश्च पुनःपृथक्। पूतनायास्तथान्धायामण्डिका शीतपूतना। नैगमेयचिकित्सा च ग्रहोत्पत्तिःसयोनिजा। कौमारतन्त्रमित्येतच्छारीरेषु च कीर्त्ति-तम्”। ( तत्प्रकारस्तत्रैव उत्तरतन्त्रे दर्शितो यथा
“अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः। वालग्रहाणां विज्ञान साधनञ्चाप्यनतरम्। ऊत्पत्तिंकारणञ्चैव सुश्रुतैकमनाः शृणु।
१ स्कन्दग्रहस्तु प्रथमः
२ स्कन्दापस्मार एवच।
३ शकुनी
४ रेवती चैव
५ पूतना चा-न्धपूतना
६ । पूतना
७ शीतनामा च तथैव
८ मुखमण्डि-का। नवसो
९ नैगमेयश्च यः पिष्टग्रहसंज्ञितः। धात्रीमा-त्रोःप्राक् प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारहीनान्। त्रस्तान् हृष्टांस्तर्ज्जितान् क्रन्दितान्वा पूजाहेतोर्हिंस्युरेतेकुमारात्। ऐश्वर्य्यस्थास्ते न शक्या विशन्तो देहं दुष्टंमानुषैर्विश्वरूपाः। आप्तं वाक्यं तत्समीक्ष्याभिधास्ये लि-ङ्गान्येषां यानि देहे भवन्ति। शूनाक्षः क्षतजसगन्धिकःस्तनद्विड्वक्रास्यो हतचलितैकपक्ष्मनेत्रः। उद्विग्नः सुलु-लितचक्षुरल्परोदी स्कन्दार्त्तो भवति च गाढमुष्टिवर्च्चाः
१ । निःसंज्ञो भवति पुनर्भवेद्विसंज्ञः संरब्धः करचरणैश्च नृत्य-तीव। विण्मुत्रे सृजति विनद्य जृम्भमाणः फेनञ्च प्रसृ-जति तत्सखाभिपन्नः
२ । स्रस्ताङ्गो भयचकितो विहङ्ग-गन्धिः संस्राविव्रणपरिपीडितः समन्तात्। स्फोटैश्च प्रत-ततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या
३ । रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा ज्वरमुख-[Page2108-b+ 38] पाकवेदनार्त्तः। रेवत्या
४ व्यंथततनुश्च कर्णनासं मृद्नातिघ्रुवमभिपीडितः कुमारः। स्रस्ताङ्गः स्वपिति सुखं दिवान रात्रौ विडमिन्नं सृजति च काकतुल्यगन्धिः। छर्द्या-र्त्तो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृ-हीतः
५ । यो द्वेष्टि स्तनमतिसारकासहिक्काच्छर्दीभि-र्ज्वरसहिताभिरर्द्यमानः। दुर्वर्णः सततमधःशयोऽम्लग-न्धिस्तं ब्रूयुर्वरभिषजोऽन्धपूतनार्त्तम्
६ । उद्विग्नो भृश-म तवेपते प्ररुद्यात् संलीनः स्वपिति च यस्य चान्त्रकूजः। विस्राङ्गो भृशमतिसार्य्यते च यस्तं जानीयाद्भिषगिहशीतपूतनार्त्तम्
७ । म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो ब-ह्नाशी कलुषासरावृतोदरो यः। सोद्वेगो भवति च मू-त्रतुल्यगन्धिः स ज्ञेयः शिशुरथ वक्त्रमण्डिकार्त्तः
८ । यःफेनं वमति विनम्यते च मध्ये सोद्वेगं बिलपति चोर्द्ध्व-मीक्षमाणः। जीर्य्येत प्रततमथो वसासगन्धि र्न्निःसंज्ञोभवति हि नैगमेयजुष्टः
९ । प्रस्तब्धो यः स्तनद्वेषी मु-ह्यते चाविशन्मुहुः। तं बालं न चिराद्धन्ति ग्रहः सम्पूर्णलक्षणः। विरीतमतःसाध्यं चिकत्सेदचिरार्दितम्। गृहे पुराणहविषाभ्यज्य बालं शुचौ शुचिः। सर्षपान्प्रकिरेत्तेषां तैलैर्दीप्रञ्च कारयेत्। सदा सन्निहितञ्चापिजुहुयाद्ध्वव्यवाहनम्। सर्वगन्धौषधीवीजैर्गन्धमाल्यैर-लङ्कृतम्। अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति संस्म-रन्। नमः स्कन्दाय देवाय ग्रहाधिपतये नमः। शि-रसा त्वाभिवन्देऽहं प्रतिगृह्णीष्व मे बलिम्। नीरु-जो निर्विकारश्च शिशुर्म्मे जायतां ध्रुवम्। अथातः स्कन्दग्रहप्रतिषेधं व्याख्यास्यामः। स्कन्दग्रहो-पसृष्टानां कुमाराणाञ्च शस्यते। वातघ्नद्रुमपत्राणांनिःक्वाथःपरिषेचने। तेषां मूलेषु सिद्धञ्च तैलमभ्यञ्जने हितम्। सर्वगन्धसुरामण्डकैटर्य्यावापमिष्यते। देवदारुणि रा-स्नायां मधुरेषु द्रुमेषु च। सिद्धं सर्पिश्च सक्षीरं पान-मस्मै प्रयोजयेत्। सर्षपा सर्पनिर्म्मोको वचा काकादनीघृतम्। उष्ट्राजाविगवाञ्चैव रोमाण्युद्धूपनं शिशोः। सोमवल्लीमिन्द्रवल्लीं शमीं विल्वस्य कण्टकान्। मृगाद-न्याश्च मूलानि ग्रथितान्येव धारयेत्। रक्तानि माल्यानितथा पताका रक्ताश्च गन्धा बिविधाश्च भक्ष्याः। घण्टाच देवाय बलिर्न्निवेद्यः सकुक्कुटः स्कन्दगृहे हिताय। स्नानं त्रिरात्रं निशि चत्वरेषु कुर्य्यात्पुनः शालियवैर्न्न-वैस्तु। अद्भिश्च गायत्र्यभिमन्त्रिताभिः प्रज्वालनं चाहु-तिभिश्च वह्नेः। रक्षामतः प्रवक्ष्यामि बालानां फाप-[Page2109-a+ 38] नाशिनीम्। अहन्यहनि कर्त्तव्या या भिषग्मिरत-न्द्रितैः। तपसां तेजसां चैव यशसां वपुषां तथा। निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु। ग्रहसेनापतिर्देवो देवसेनापतिर्बिभुः। देवसेनापरिपुहरः पातुत्वां भगवान् गुहः। देव देवस्य महतः पावकस्य च यःसुतः। गङ्गोमाकृत्तिकानाञ्च स ते शर्म्म प्रयच्छतु। रक्त-माल्याम्बरः श्रीमान् रक्तचन्दनभूषितः। रक्तदिब्यवपुर्द्देवःपातु त्वां क्रौञ्चसूदनः”
१ ।
“अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः। विल्वःशिरीषो गोलोमी सुरसादिश्च यो गणः। परिषेके प्रयो-क्तव्यः स्कन्दापस्मारशान्तये। सर्वगन्धविपक्वन्तु तैलम-भ्यञ्जने हितम्। क्षीरवृक्षकषाये च काकोल्यादौ गणेतथा। विपक्तव्यं घृते वापि पानीयं पयसान्वितम्। उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम्। गृध्रोलू-कपुरीषाणि केशाहस्तिनखा घृतम्। वृषभस्य च रोमाणियोज्यान्युद्धूपनेऽपि च। अनन्तां कुक्कुटीं विम्बीं मर्क्क-टीञ्चापि धारयेत्। पक्कापक्कानि मांसानि प्रसन्नं रुधिरंपयः। घृतोदनो निवेद्यश्च स्कन्दापस्मारिणोऽवटे। चतुःपथे च कर्त्तव्यं स्नानमस्य यतात्मना। स्कन्दाप-स्मारसंज्ञोयः स्कन्दस्य दयितः सखा। विशाखसंज्ञश्चशिशोः शिवोऽस्तु विकृताननः”
२ ।
“अथातः शकुनीप्रतिषेधं व्याख्यास्यामः। शकुन्यभिपरीतस्यकार्य्यो वैद्येन जानता। वेतसाम्रकपित्थानां निःक्वाथःपरिषेचने। कषायमधुरैस्तैलं कार्य्यमग्थञ्जने शिशोः। मधुकोशीरह्रीवेरशारिवोत्पलपद्मकैः। रोध्रप्रियङ्गुमञ्जि-ष्ठागैरिकैः प्रदिहेच्छिशुम्। व्रणेषूक्तानि चूर्णानि पथ्या-नि विविधानि च। स्कन्दग्रहे धूपनानि तानीहापिप्रयोजयेत्। शतावरीमृगैर्वारुनागदत्तीनिदिग्धिकाः। लक्ष्मणां सहदेवीञ्च वृहतीञ्चापि धारयेत्। तिलतण्डु-लकं माल्यं हरितालं मनःशिला। बलिरेष करञ्जेषुनिवेद्यो नियतात्मना। निकुञ्चे च प्रयोक्तव्यं स्नानमस्ययथाविधि। स्कन्दग्रहोपशमनं घृतं तच्चेह पूजितम्। कुर्य्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः। अन्तरि-क्षचरा देवी सर्वालङ्कारभूषिता। अवोमुखी तीक्ष्णतुण्डाशकुनीते प्रसीदतु। दुर्द्दर्शना महाकाया पिङ्गाक्षी भैर-वस्वना। लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु”
३ ।
“अथातो रेवतीप्रतिषेधं व्याख्यास्वामः। अश्वगन्न्धाजशृङ्गीच शारिवा सपुनर्न्नवा। सुहे विदारी च तथा कषायाः[Page2109-b+ 38] सेचने हिताः। तैलमभ्यञ्जने कार्य्यं कुष्ठे सर्ज्जरसेऽपिवा। धवाश्वकर्णककुभधातकीतिन्द कीषु च। काकोल्या-दिगणे चैवं पानीयं सर्प्पिरिष्यते। कुलत्थाः शङ्खचूर्णञ्चप्रदेहाः सर्वगन्धिकाः। गृध्रोलूकपूरीषाणि यवायवफखी घृतम्। सन्ध्ययोरुभयोः कार्य्यमेतदुद्ध्वूपर्नेशिशोः। वरुणारिष्टकमयं रूचकं सेन्दुकं तथा!सततं धारयेच्चापि कृतं वा पौत्रजीविकम्। शुक्लाःसुमनसो लाजाः पयः शाल्योदनं तथा। बलिर्न्निवेद्योगोतीर्थे रेवत्यै प्रयतात्मना। सङ्गमे च भिषक्-स्नानं कुर्य्याद्वात्रीकुमारयोः। नानावस्त्रधरा देवी चित्रमा-ल्यानुलेपना। चलत्कुण्डलिनी श्यामा रेवती तेप्रसीदतु। लम्बा कराला विनता तथैव बहुपुत्रिका। रेवती सततं माता सा ते देवी प्रसीदतु”
४ ।
“अथातः पूतनाप्रतिषेधं व्याख्यास्यामः। कपोतवङ्काऽर-लुको वरुणः पारिभद्रकः। आस्फोता चैव येज्याः स्युर्व्वा-लानां परिषेचने। वचा व्यस्था गोलोमी हरितालं मनःशिला। कुष्ठं सर्ज्जरसश्चवि तैलार्थे वर्ग इष्यते। हितंघृतं तुगाक्षीर्य्यां सिद्धं मधुरकेषु च। कुष्ठतालीशखदिरंचन्दनस्यन्दने तथा। देवदारुवचाहिङ्गुकुष्ठं गिरिकद-म्बकः। एलाहरेणवश्चापि योज्या उद्धूपने सदा। ग-न्धनाकुलिकुम्भीकामज्जानो वदरस्य। कर्कटास्थि घृ-तञ्चैव धूपनं सर्षपैः सह। काकादनीं चित्रफलां वि-म्बीं गुञ्जाञ्च धारयेत्। मत्स्यौदनञ्च कुर्व्वीत कृशरंपललं तथा। शरावसम्पुटे कृत्वा बलिं शून्यगृहे हरेत्। उच्छिष्टेनाभिषेकेण शिरसि स्नानमिष्वते। पूज्या चपूतना देवी बलिभिः सोपहारकैः। मलिनाम्बरसंवी-ता मलिना रूक्षमूर्द्धजा। शून्यागाराश्रिता देवी दारकंपांतु पूतना। दुर्द्दर्शना सुदुर्गन्धा कराला मेघकालिका। भिन्नागाराश्रया देवी दारकं पातु पूतना”
५ । (
“अथातोऽन्धपूतनाप्रतिसेधं व्यास्थास्यामः। तिक्तकद्रुमपत्राणां कार्य्यंः क्वाथोऽवसेचने। सुरासौवीरकं कुष्ठंहरितालं मनःशिला। तथा सर्ज्जरसश्चैव तैलार्थमुपदि-श्यते। पिप्पलः पिप्पलीमूलं वर्गो मधुरको मधु। शालपर्णीवृहत्यौ च घृतार्थमुपदिश्यते। सर्व्वगन्धैः प्रदेहश्च गा-त्रेष्वक्ष्णोश्च शीतलैः। पूरीषं कौक्कुटं केशांश्चर्म्म सर्प-त्वचन्तथा। जीर्णाञ्च भिक्षुसङ्घाटीं धूपनायोपकल्पयेत्। कुक्कुटीं मर्कटीं शिम्बीमनन्ताञ्चापि धारयेत्। मांसमामंतथा पक्वं शोणितञ्च चतुःपथे। निवेद्यमन्तश्च मृहे[Page2110-a+ 38] शिशोरक्षानिमित्ततः। शिशोश्च स्नपनं कुर्य्यात् सर्व्व गन्धा-दिकैः शुभैः। कराला पिङ्गला मुण्डा कषायाम्बरबा-सिनी। देवी बालमिमं प्रीता संरक्षत्वन्धपतना”
६ ।
“अथातः शीतपूतनाप्रतिषेमं व्याख्यास्यामः। कपित्थं सु-वहां विम्बीन्तथा विल्वं प्रचीबलम्। नन्दीं भल्लात-कीञ्चापि परिषेके प्रयोजयेत्। वस्तमूत्रं गवां मूत्रं सुस्तञ्चसुरदारु च। कुष्ठञ्च सर्व्वगन्धञ्च तैलार्थमवचारयेत्। रोहिणीसर्ज्जखदिरपलाशककुभत्वचः। निःक्वाथ्यतस्मिन्निःक्वाथे सक्षीरं विपचेत्ततः। गृध्रोलूकपूरीषाणिवस्तगन्धामहेस्त्वचः। निम्बपत्राणि मधुकं धूपनार्थेप्रयोजयेत्। धारयेदपि लम्बाञ्च गुञ्जां काकादनीं तथा। नद्यां मुद्गकृतैश्चान्नैस्तर्पयेच्छीतपूतनाम्। देव्यै देयश्चोप-हारो वारुणीरुधिरं तथा। जलाशयान्ते बालस्य स्नपनंचोपदिश्यते। मुद्गौदनाशना देवी सुराशोणितपायिनी। जलाशयालया देवी पातु त्वां शीतपूतना”
७ । (
“अथातोमुखमण्डिकाप्रतिषेधं व्याख्यास्यामंः। कपित्थ-विल्वतर्क्कारीमांसीगन्धर्वहस्तकाः। कुवेराक्षी च योज्याःस्युर्बालानां परिषेचने। सरसैर्भृङ्गवृक्षाणां तथा-जहरिगन्धयोः। तैलं वसाञ्च संयोज्य पचेदभ्यञ्जनेशिशोः। मधूलिकायां पयसि तुगाक्षीर्य्याङ्गणे तथा। मधुरे पञ्चमूले च कनीयसि वृतं पचेत्। वचासर्ज्जरसःकुष्ठं सर्पिश्चोद्धूपने हितम्। धारयेदपि जिह्वाश्च चाष-चीरल्लिसर्प्पजाः। वर्णकं चूर्ण्णकं माल्यमञ्जनं पारदंतथा। मनःशिलाञ्चोपहरेद्गोष्ठमध्ये बलिं तथा। पायसंसपुरोडाशं बल्यर्थ मुपहारयेत्। मन्त्रपूताभिरद्भिश्च तत्रैवस्नपनं हितम्। अलङ्कृता रूपवती सुभगा कामरूपिणी। गोष्टमध्यालयरता पातु त्वां मुखमण्डिका”
८ ।
“अथातो नैगमेयप्रतिषेधं व्याख्यास्यामः। विल्वाग्नि-न्थिपूतीकाः कार्य्याः स्युः परिषेचने। सुरासौवीरधा-त्याम्लैः परिषेकश्च शस्यते। प्रियङ्गुसरलानन्ताशत-पुष्फाकुटन्नटैः। पचेत्तैलं सगोमूत्रैर्दधिमन्त्वम्लका-ञ्जिकैः। पञ्चमूलद्वयक्वाथे क्षीरे मधुरकेषु च। पचेद्-घृतञ्च मेधावी खर्ज्जूरीमस्तकेऽपि च। वचां वयस्थांगोलोभों जटिलां चापि धारयेत्। उत्सादनं हितंचात्र स्कन्दापस्मारनाशनम्। सिद्धार्थ कवचाहिङ्गु-कुष्ठञ्चेंवाक्षतैः सह। भल्लातकाजमोदाश्च हितमुद्धूपनंशिशोः। मर्क्कटोलूकगृध्राणां पूरीषाणि नवग्रहे। धूपःसुप्ते जने कार्य्योबालस्यहितमिच्छता। तिलतण्डुलकं[Page2110-b+ 38] माल्यं भक्ष्यांश्च विविधानपि। कुमारपितृमे-धाय वृक्षमूले निवेदयेत्। अधस्ताद्वटवृक्षस्य स्नपनंचोपदिश्यते। बलिं न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवे-दयेत्। अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः। बालं पालयिता देवो नैगमेयोऽभिरक्षतु”
९ ।
“अथातोग्रहोत्पत्तिमध्यायं व्याख्यास्यामः। नव स्क-न्दादयः प्रोक्ता बालानां य इमे ग्रहाः। श्रीमन्तोदिव्यवपुषो नारीपुरुषविग्रहाः। एते गुहस्व रक्षार्थंकृत्तिकोमाग्निशूलिभिः। सृष्टाः शरवणस्थस्य रक्षि-तस्यात्मतेजसा। स्त्रीविग्रहा ग्रहा वे तु नाना-रूपा मयेरिताः। गङ्गोमाकृत्तिकानाञ्च ते भागाराजसा मताः। नैगमेयस्तु पार्व्वत्या सृष्टो मेषान-नो ग्रहः। कुमारधारो देवस्य गुहस्यात्मसमः सखा। स्कन्दापस्मारसंज्ञो यः सोऽग्निनाग्निसमद्युतिः। सच स्कन्दसखो नाम विशाख इति चोच्यते। स्कन्दः-सृष्टो भगवता देवेन त्रिपुरारिणा। बिभर्त्ति चापरांसंज्ञां कुमार इति स ग्रहः। बाललीलाधरो योऽयं देवोरुद्राग्निसम्भवः। मिथ्याचारेषु भगवान् स्वयं नैषप्रवर्त्तते। कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः। गृह्लन्तीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः। ततो भगवतिस्कन्दे सुरसेनापतौ कृते। उपतस्थुर्ग्रहाः सर्व्वे दीप्त-शक्तिधरं गुहम्। उचुः प्राञ्जलयश्चैनं वृत्तिं नः संवि-धत्स्व वै। तेषामर्थे ततः स्कन्दः शिवं देवमचोद-यत्। ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत्। तिर्य्यग्योर्नि मानुषञ्च दैवञ्च त्रितयं जगत्। परस्प-रोपकारेण वर्त्तते धार्य्यतेऽपि च। देवा मनुष्यान् प्रीणन्तितैर्य्यग्योनींस्तथैव च। वर्त्तमानैर्य्यथाकालं शीतवर्षोष्ण-मारुतैः। इज्याञ्जलिनमस्कारजपहोमव्रतादिभिः। नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान्। भागधेयंविभक्तञ्च शेषं किञ्चिन्न विद्यते। तद्युष्माकं शुभा वृत्ति-र्ब्बालेष्वेब भविष्यति। कुलेषु येषु नेज्यन्ते देवाः पितरएव च। व्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा। निवृत्ताचारशौचेषु परपाकोपभोजिषु। उच्छन्नबलिभिक्षेषुभिन्नकांस्योपमोजिषु। गृहेषु तेषु ये बालास्तान् गृ-ह्णीध्वमशङ्गिताः। तत्र वो विपुला वृत्तिः पूजा चैवभविष्यति। एवं ग्रहाः समुत्पन्ना बालान् गृह्णन्ति चा-प्यतः। ग्रहोपसृष्टा बालास्तु दुश्चिकत्स्यतमा मताः। वैकल्यं मरणं चाशु ध्रुवं स्कन्दग्रहे मतम्। स्कन्द-[Page2111-a+ 38] ग्रहोत्य ग्रतमः सर्वेष्वेव यतःस्मृतः। अन्योवा सर्वरूप-स्तु न साध्यो ग्रह उच्यते”।
“कुमारभृत्याकुशलै-रनुष्ठिते भिषग्वराप्तैरथ गर्भभर्मणि” रघुः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुमारभृत्या¦ f. (-त्या) Care of a pregnant or lying-in woman, midwifery. E. कुमार a child, and भृत्या cherishing.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुमारभृत्या/ कुमार--भृत्या f. care of a young child or of a pregnant or lying-in woman , midwifery Ragh. iii , 12.
