सामग्री पर जाएँ

कुमुत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुमुत्, [द्] क्ली, (कौ पृथिव्यां मोदते इति । कु + मुद् + क्विप् ।) कुमुदम् । इति मेदिनी । हेला इति भाषा । रक्तोत्पलम् । इति त्रिकाण्डशेषः ॥ (यथा, भागवते ३ । २३ । ३८ । “बभ्राज उत्कचकुमुद्गणवानपीब्य स्ताराभिरावृत इवोडुपतिर्नभस्थः” ॥ कुमुदस्य कन्दविशेषः । शालुक इति यस्य ख्यातिः । अस्य पर्य्याया यथा, -- “कैरवं चन्द्रकान्तञ्च गर्दभं कुमुदं कुमुत्” ॥ इति वैद्यकरत्नमालायाम् ॥)

कुमुत् [द्] त्रि, (कुस्तिते विषये मुत् हर्षो यस्य कुत्सिता मुद् अस्य वा ।) कृपणः । इति मेदिनी ॥ अप्रीतः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=कुमुत्&oldid=127492" इत्यस्माद् प्रतिप्राप्तम्