कुमुदः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुमुदः, पुं, (कुत्सिते नैरृतकोणे मोदते इति । कु + मुद् + कः ।) नैरृतकोणस्थदिघस्ती । इत्यमरः । १ । ३ । ३ ॥ वानरविशेषः । (अयं खलु राम- चन्द्रस्य सेनापतिवानराणां एकतमः । यथा, रामायणे । ६ । २ । २८ । “नाम्ना संकोचलो नाम नानाद्विजयुतो गिरिः । तत्र राज्यं प्रशास्त्येष कुमुदो नाम वानरः । योऽसौ शतसहस्राणि सहस्रं परिकर्षति” ॥) नागविशेषः । (यथा, महाभारते । १ । ३५ । १५ । “कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः । कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा” ॥) दैत्यभेदः । सितोत्पलम् । इति हेमचन्द्रः ॥ क- र्पूरः । इति राजनिर्घण्टः ॥ ध्रुवकभेदः । यथा, -- “एकाविंशतिवर्णाङ्घ्रिर्मवेत् शृङ्गारके रसे । कुमुदोऽभोष्टदश्चैव ताले तुरगलीलके” ॥ इति सङ्गीतदामोदरः ॥ (कुं पृथ्वीं भूमिं वा मोद- यति । अन्तर्भूतणिजन्तात् मुदः कः । विष्णुः । यथा, महाभारते । १३ । १४९ । ७६ । “शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः” ॥ विष्णुपार्श्वदः । यथा, भागवते । ८ । २१ । १० । “कुमुदः कुमुदाक्षश्च विश्वक्सेनः पतत्रिराट्” ॥ मेरोरुपष्टम्भगिरिविशेषः । स चायुतयोजनवि- स्तृतः । यथा, भागवते ५ । १६ । १२ । “मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इति । अयुतयोजनविस्तारोन्नाहा मेरोश्चतुर्द्दिशमवष्टम्भ- गिरय उपकॢप्ताः” ॥ शाल्मलद्वीपान्तर्गतप्रथम- पर्व्वतः । यथा, विष्णुपुराणे २ । ४ । २६ । “कुमुदश्चान्नतश्चैव तृतीयश्च वलाहकः” ॥ आनूपजन्तुविशेषः । यथा, -- “हंससारसचक्राद्याः कुमुदाश्च कपिञ्जलाः । आनूपास्तेषु विज्ञेयाः श्लेष्मला वातकोपनाः” ॥ इति हारीते प्रथमेस्थाने ११ अध्यायः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुमुदः [kumudḥ] दम् [dam], दम् [कौ भोदते इति कुमुदम्]
The white waterlily said to open at moon-rise [Nymphea alba] नोच्छ्वसिति तपनकिरणैश्चन्द्रस्येवांशुभिः कुमुदम् V.3.16; so Ś.5. 28; Ṛs.3.2,21,23; Me.42. कुमुदवनमपश्रि श्रीमदम्भोजषण्डम् Śi.11.64.
A red lotus. -दम् Silver.
दः An epithet of Viṣṇu.
N. of the elephant supposed to guard the south.
Camphor.
A species of monkey.
N. of a Nāga who gave his younger sister कुमुद्वती to Kuśa, son of Rāma; see R.16.79.86.-दा A form of Durgā. -Comp. -अभिख्यम् silver.-आकरः, -आवासः a pond full of lotuses. कुमुद्वतीनां कुमुदाकरैरिव Śi.12.4. -आनन्द a. The delighter of lotuses; अन्वगात्कुमुदानन्दं शशाङ्कमिव कौमुदी R.17.6. -ईशः the moon. -खण्डम् an assemblage of lotuses. -गन्ध्याf. a woman having the smell of a कुमुद to her body.-नाथः, -पतिः, -बन्धः, -बान्धवः, -सुहृद् m. the moon. ततः कुमुदनाथेन कामिनीगण्डपाण्डुना R.
