कुम्भकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुम्भकः, पुं, (कुम्भ इव कायति प्रकाशते निश्चलत्वात् । कै + कः । यद्वा कुम्भ + स्वार्थे कः ।) दक्षिण- हस्तेन नासापुटद्वयं धृत्वा प्राणायामाङ्गं वायु- स्तम्भनम् । इति तन्त्रम् ॥ (पातञ्जलयाज्ञव- ल्क्यादौ तु । “कुम्भकः पूरको रेचः प्राणायामस्त्रिलक्षणः । पूरकं पूरणं वायोः कुम्भकः स्थापनं क्वचित् ॥ वहिर्निःसारणं तस्य रेचकः परिकीर्त्तितः ॥ दक्षिणे रेचयेद् वायुं वामेन पूरितोदरः । कुम्भेन धारयेन्नित्यं प्राणायामं विदुर्बुधाः ॥ अङ्गुष्ठेन पुटं ग्राह्यं नासया दक्षिणं पुनः । कनिष्ठानामिकाभ्याञ्च वामं प्राणस्य संग्रहे ॥ अङ्गुष्ठतर्जनीभ्यान्तु ऋग्वेदी सामगायनः । अङ्गुष्ठानामिकाभ्यान्तु ग्राह्यं सर्व्वैरथर्व्वभिः” ॥) (तथा च, हठयोगदीपिकायाम् । २ । ४३ । “तत्सिद्धये विधानज्ञाश्चित्रान् कुर्व्वन्ति कुम्भकान् । विचित्रकुम्भकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात्” ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुम्भकः [kumbhakḥ], 1 The base of a column (used especially in this sense frequently in inscription).
A religious exercise (in Yoga phil.), stopping the breath by closing the mouth and both nostrils with the fingers of the right hand; प्राणापानौ संनिरुन्ध्यात्पूरकुम्भकरेचकैः Bhāg.7.15.32.
