कुम्भकारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुम्भकारः, पुं, (कुम्भं करोति । कुम्भ + कृ + “कर्म्म- ण्यण्” । ३ । २ । १ । इति अण् ।) जातिविशेषः । कुमोर इति भाषा । स तु शूद्रागर्भे विश्वकर्म्मऐर- साज्जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥ तत्पर्य्यायः । कुलालः २ । इत्यमरः । २ । १० । ६ ॥ चक्री ३ । इति जटाधरः ॥ (एतज्जातिविषये तु पुराण- भेदेन मतभेदो दृश्यते । यथा । “वैश्यायां विप्रतश्चौरात् कुम्भकारः स उच्यते” ॥ “मालाकाराच्चर्म्मकार्य्यां कुम्भकारो व्यजायत” ॥ “पट्टीकाराच्च तैलिक्यां कुम्भकारो बभूव ह” ॥ इत्यादि बहुलमतमस्ति बाहुल्यभिया नास्माभि- रुद्ध्रियते ॥) कुक्कुभपक्षी । इति हेमचन्द्रः ॥
