सामग्री पर जाएँ

कुम्भयोनि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुम्भयोनिः, पुं, (कुम्भः योनिर्जन्मस्थानं यस्य ।) अगस्त्य- मुनिः । (यथा रघुः ४ । २१ । “प्रससादोदयादम्भः कुम्भयोनेर्महौजसः” ॥) वशिष्ठमुनिः । (एतयोर्मुनिसत्तमयोरुत्पत्तिविवरणं तु उर्व्वशीकृते कन्दर्पपीडितयोर्मित्रावरुणयोः स्खलितेनैकस्मिन् कुम्भे सङ्गतेन रेतसा यथा घटितं तथा तत् रामायणोत्तरकाण्डे ६६ -- ६७ सर्गे विशेषतो द्रष्टव्यम् ॥) द्रोणाचार्य्यः । इति मेदिनी ॥ (अस्य उत्पत्तिकथायथा महाभारते १ । १३१ । ९-१४ । “गङ्गाद्वारं प्रति महान् बभूव भगवानृषिः । भरद्वाज इति ख्यातः सततं शंसितव्रतः ॥ सोऽभिषेक्तुं ततो गङ्गां पूर्ब्बमेवागमन्नदीम् । महर्षिभिर्भरद्वाजो हविर्द्धाने चरन् पुरा ॥ ददर्शाप्सरसं साक्षात् घृताचीमाप्लुतामृषिः । रूपयौवनसंम्पन्नां मददृप्तां मदालसाम् ॥ तस्याः पुनर्नदीतीरे वसनं पर्य्यवर्त्तत । व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥ तत्र संसक्तमनसो मरद्वाजस्य धीमतः । ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥ ततः सममवद्रोणः कलसे तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्ष्वशः ॥) द्रोणपुष्पीष्टक्षः । इति राजनिर्घण्टः ॥ (स्त्रो, अप्स- रोविशेषः । यथा महाभारते । ३ । ४३ । ३० । “गोपाली सहजन्या च कुम्भयोनिः प्रजागरा । चित्रसेना चित्रलेखा सहा च मधुरस्वना” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुम्भयोनि¦ पु॰ कुम्भः योनिरुत्पत्तिस्थानमस्य।

१ अगस्त्ये मुनौ
“प्रससादोदयादम्भः कुम्भयोनेर्महौजसः” रघुः।

२ वशिष्ठेमुनौ। तयोः यथा च ततौत्पत्तिस्तथाह रामा॰ उ॰ का॰

९३ अ॰
“अशरीरः शरीरस्य कृते न्यस्य महामुनिः। वसि-ष्ठस्तु महातेजा जगाम पितुरन्तिकम्। सोऽभिवाद्य ततःपादौ देवदेवस्य धर्मवित्। पितामहमथोवाच वायुभूतैदंवचः। भगवन्निमिशापेन विदेहत्वमुपागमम्। देवदेव!महादेव! वायुभूतोऽहमण्डज!। सर्वेषां देहहीनानांमहद्दुःखं भविष्यति। लुप्यन्ते सर्वकार्य्याणि हीनदेहस्य वै प्रभो!। देहस्यान्थस्य सद्भावे प्रसादं कर्तुमर्हसि। तमुवाच ततोव्रह्मा स्वयंभूरमितप्रभः। मित्रावरुण-जन्तेज आविशत्वं महायशः!। अयोनिजस्त्वं भविता-तत्रापि द्विजसत्तम!। धर्मेण महता युक्तः पुनरेष्यसि मे व-शम्। एवमुक्तस्तु देवेन अभिवाद्य प्रदक्षिणम्। कृत्वापितामहं तूर्णं प्रययौ वरुणालयम्। तमेव कालं मित्रीऽ-पि वरुणत्वमकारयत्। क्षीरोदेन सहोपेतः पूज्यमानः सु-रेश्वरैः। एतस्मिन्नेव काले तु उर्वशी परमाप्सराः। यद्र-[Page2118-a+ 38] च्छया तमुद्देशमागता सखोभिर्वृता। तां दृष्ट्वा रूपसप-न्नां क्रीडन्तीं वरुणालये। तदाविशत्परो हर्षो वरुणंचोर्वशीकृते। स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम्। वरुणोवरयामास मैथुनायाप्सरोवराम्। प्रत्युवाच ततःसा तु वरुणं प्राञ्जलिः स्थिता। मित्रेणाहं वृता साक्षा-त्पूर्व मेव सुरेश्वर!। वरुणस्त्वव्रवीद्वाक्यं कन्दर्पशरपीडि-तः। इदं तेजः समुत्स्रक्ष्ये कुम्भेऽस्मिन्देक्निर्मिते। एव मुत्सृज्य सुश्रोणि! त्वय्यहं वरवर्णिनि!। कृतकामो-भविष्यामि यदि नेच्छसि स गमम्। तस्य तल्लोकनाथस्यवरुणस्य सुभाषितम्। उर्वशी परमप्रीता श्रुत्वा वाक्य-मुवाच ह। काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम्। भावश्चाप्यधिकं तुभ्यन्देहो मित्रस्य तु प्रभो!। उर्वश्याएवमुक्तस्तु रेतस्तन्महदद्भुतम्। ज्वलदग्निसमप्रख्यं तस्मिन्कुम्भे न्यवासृजत्। उर्वशी त्वगमत् तत्र मित्रोवै यत्रदेवता। तान्तु मित्रः सुसंक्रुद्धौर्वशीमिदमब्रवीत्। मया-ऽभिमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता। पतिमन्यं वृत-वती किमर्थं दुष्टचारिणि!। अनेन दुष्कृतेन त्वं मत्-क्रोधकलुषीकृता। मनुष्यलोकमास्थाय कञ्चित्काल-श्रिवत्स्यिसि” इति तस्य तस्यां शापमुक्त्वा
“यः स कुम्भो रघुश्रेष्ठ! तेजःपूर्णोमहात्मनोः। तस्मिं-स्तेजोमयौ बिप्रौ सम्भूताघृषिसत्तमौ। पूर्वं समभवत्तत्रअगस्त्योभगवानृषिः। नाहं सुतस्तवेत्युक्त्वा मित्रंतस्मादपाक्रमत्। तद्धि तेजस्तु मित्रस्य उर्वश्याः पूर्वमा-हितम्। तस्मिन् समभवत्कुम्भे तत्तजोयत्र वारुणम्। कस्यचित्त्वय कालस्य मि त्रावरुनसंभवः। वसिष्ठस्ते-जसा युक्तो जज्ञे इक्ष्वाकुदैवतम्”। अत्रैवमाख्यायिका प्रथममुर्वशीं मित्रो दृष्ट्वा तामागन्त्रितवान्तयाच त्वन्निवासमागमिष्यामीत्युक्तस्तदा वरुणलोकस्थ एवमित्रस्तद्दर्शनाद्धटस्खलितं निजतेजः कुम्भे उत्सृज्य स्व-न्निवास जगाम पश्चाद्वरुणोऽपि तां दृष्ट्वा स्खलितं तेजःकुम्भे व्यसृजत् ततोमित्रनिवासंगता मित्रेण शप्ता चेति। रामा॰ श्लोकस्यायमर्थः नाहं सुतस्तवेति यद्यपि मित्रे-णापि कुम्भे रेत उत्सृष्टं तथापि तवैकस्य पुत्रो नभवामीत्युक्त्वाऽपाक्रामत्। एवमुक्तौ वीजमाह तद्धि तेजैतिअगस्त्योत्पत्तिहेतुभूतं मित्रस्व तेजः पूर्वमुर्वशीनिमित्त-वरुणवीर्यविसर्गात्पूर्ब माहितं यस्मिन् कुम्भे तस्मिन्नेवकुम्भे वारुणं तेजः समभवत् संगतमभवत् यत्र कुम्भेमित्रस्व तेज आसीत् अतस्तेजोन्तरसंगमादुत्प-[Page2118-b+ 38] त्तेर्नैकस्य तव सुत इत्युक्तमगस्त्येन मित्रं प्रति।
“अगस्त्यश्च वशिष्ठश्च मित्रावरुणयोरृषी। रतः सुषि-चतोः कुम्भे उर्वश्याः सन्निधौ तथा” भाग॰

६ ।

१८ ।

५ ।

३ अप्सरोभेदेस्त्री
“गोपाली सहजन्या च कुम्भयोनिःप्रजागरा” भा॰ व॰

४३ अ॰।

४ द्रोणाचार्य्ये पु॰ तदुपत्ति-कथा द्रोणशब्दे वक्ष्यते

५ द्रोणपुष्पीवृक्षे पु॰ राजनि॰

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुम्भयोनि¦ m. (-निः)
1. A name of AGASTYA, a saint so called.
2. Also of VASISHT'HA; and of DRONA, the miltary preceptor of the Kurus and Pandus. E. कुम्भ a jar, and योनि a womb; born in a water jar, &c.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुम्भयोनि/ कुम्भ--योनि m. " born in a water-jar " , N. of अगस्त्यMBh. Ragh. BhP.

कुम्भयोनि/ कुम्भ--योनि m. of द्रोण(the military preceptor of the कुरुs and पाण्डुs) L.

कुम्भयोनि/ कुम्भ--योनि m. of वसिष्ठL.

कुम्भयोनि/ कुम्भ--योनि f. the plant Phlomis ceylanica (commonly द्रोण-पुष्पी) L.

कुम्भयोनि/ कुम्भ--योनि f. " having a jar-shaped pudendum " , N. of an अप्सरस्MBh. iii , 1785.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--a name of Agastya. भा. I. १९. १०.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

KUMBHAYONI I : Agastya. (See under Agastya).


_______________________________
*7th word in left half of page 440 (+offset) in original book.

KUMBHAYONI II : A Deva woman who danced in Indrasabhā when Arjuna came to Indraloka. (Vana Parva, Chapter 43, Verse 30).


_______________________________
*8th word in left half of page 440 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुम्भयोनि&oldid=496630" इत्यस्माद् प्रतिप्राप्तम्