कुरङ्गः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुरङ्गः पुं, (कौ पृथिव्यां भूमौ वा रङ्गति । रगि + अच् । यद्वा, “विडादिभ्यः किच्च” । उणां १ । १२० इति अङ्गच् बाहुलकात् उत्वं रपरत्वञ्च । कुरङ्ग- विहङ्गादयःसर्व्वेनिपात्यन्ते । इति वा ।) हरिणः । इत्यमरः । २ । ५ । ८ ॥ कुतङ्गकोऽपि ॥ (यथा, भागवतटीकायां स्वामिना प्रोक्तम् । “कुरङ्गमातङ्गपतङ्गभृङ्ग- मीना हताः पंञ्चभिरेव पञ्च” ॥ अस्य गुणाः यथा, -- “कुरङ्गो वृंहणो बल्यः शोतलः पित्तहृद्गुरुः । मधुरो वातहृद्ग्राही किञ्चित्कफकरः स्मृतः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ * ॥ अस्य लक्षणं यथा, -- “न कृष्णो न च ताम्रश्च कुरङ्गः सोऽभिधोयते” ॥ इति सूत्रस्थाने षट्चत्वारिंशेऽध्याये सुश्रते- नोक्तम् ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुरङ्गः [kuraṅgḥ], (-ङ्गी f.)
A deer in general; तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः Śānti.1.14,4.6; लवङ्गी कुरङ्गी- दृगङ्गीकरोतु Jag.
A species of deer (कुरङ्ग ईषत्ताम्रः स्याद्धरिणाकृतिको महान्).
The spot in the moon. -Comp. -अक्षी, -नयना, -नेत्रा a deer-eyed woman; क्वासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि Pras. Rāgh. -नाभिः musk. तत्र स्थितं भृङ्गकुरङ्गनाभिमादाय योषेव नु लिम्पति स्वम् Rām. Ch.6.24.-लाञ्छनः the moon.
