सामग्री पर जाएँ

कुरण्टक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुरण्टकः, पुं, (कुर्य्यते शब्द्यते इति । कुर् + कर्म्मणि बाहुलकात् अण्टक् स्वार्थे कन् ।) पीताम्लानः । पीतझिण्टी । इति राजनिर्घण्टः ॥ (अस्य पर्य्याय- लक्षणगुणा यथा, -- “सैरेयकः श्वेतपुष्पः सैरेयः कटसारिका । सहाचरः सहचरः स च मिन्द्यपि कथ्यते ॥ कुरण्टकोऽत्र पीते स्याद्रक्ते कुरवकः स्मृतः । नीले वाणाद्वयोरुक्तो दासे आर्त्तगलश्च सः ॥ सैरेयः कुष्ठवातास्रकफकण्डूविषापहः । तिक्तोष्णो मधुरोऽनम्लः सुस्निग्धः केशरञ्जनः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “किंशुकं कफपित्तघ्नं तद्वदेव कुरण्टकम्” ॥ इति शुश्रुते सूत्रस्थाने ४६ अः ॥ अत्रास्य नपुं- सकत्वं व्यज्यते ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुरण्टक पुं।

पीतमहासहा

समानार्थक:कुरण्टक

2।4।74।1।2

तत्र शोणे कुरबकस्तत्र पीते कुरण्टकः। नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

कुरण्टक पुं।

पीतझिण्टिका

समानार्थक:कुरण्टक,सहचरी

2।4।75।2।1

सैरेयकस्तु झिण्टी स्यात्तस्मिन्कुरबकोऽरुणे। पीता कुरण्टको झिण्टी तस्मिन्सहचरी द्वयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुरण्टक¦ m. (-कः)
1. Yellow amaranth.
2. Yellow barleria: see कुरुण्टक।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुरण्टक m. yellow amaranth L.

कुरण्टक m. a yellow kind of Barleria L.

कुरण्टक n. the blossom of that plant ib.

"https://sa.wiktionary.org/w/index.php?title=कुरण्टक&oldid=496670" इत्यस्माद् प्रतिप्राप्तम्