सामग्री पर जाएँ

कुरण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुरण्डः, पुं, (कुर + अण्डक् ।) मुष्कवृद्धिरोगः । कोरण्ड इति भाषा । तत्पर्य्यायः । वृद्धिः २ अण्डवर्द्धनः ३ । इति हेमचन्द्रः ॥ तस्य सम्प्राप्ति- पूर्ब्बकं लक्षणं यथा, -- “क्रुद्धोऽनूर्द्ध्वगतिर्वायुः शोथशूलकरश्चरन् । मुष्कौ वङ्क्षणतः प्राप्य फलकोषाभिवाहिनीः ॥ प्रपीड्य धमनीर्वृद्धिं करोति फलकोषयोः । दोषास्रमेदोमूत्रान्त्रैः सवृद्धिः सप्तधा मतः ॥ मूत्रान्त्रजावप्यनिलाद्धेतुभेदश्च केवलम् । वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक् ॥ पक्वोडुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान् । कफाच्छीतो गुरुः स्निग्धः कण्डूमान्कठिनोऽल्परुक् ॥ कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्तजः । कफवन्मेदसा वृद्धिर्मृदुस्तालफलोपमः ॥ मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः । अम्भोभिः पूर्णदृतिवत् क्षोभं याति सरुङ्मृदुः ॥ मूत्रकृच्छ्रमधः स्याच्च चालयन् फलकोषयोः । वातकोपिभिराहारैः शीततोयावगाहनैः ॥ धारणे रणभाराध्वविषमाङ्गप्रवर्त्तनैः । क्षोभणैः क्षुभितश्चान्यैः क्षुद्रान्त्रावयवं यदा ॥ पवनो विगुणीकृत्य स्वनिवेशादधो नयेत् । कुर्य्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा ॥ उपेक्ष्यमाणस्य च मुष्कष्टद्धि- माध्मानरुक् स्तम्भवतीं स वायुः । प्रपीडितोऽन्तःस्वनवान् प्रयाति प्रध्मापयन्नेति पुनश्च मुक्तः ॥ अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः” ॥ इति वृद्धिनिदानम् ॥ इति माधवकरः ॥ * ॥ तस्यौषधं यथा, -- “द्विजयष्ट्याश्च वै मूलं पिष्टं तण्डुलवारिणा । गण्डमालां हरेल्लेपात् कुरण्डगलगण्डकम् ॥ रसाञ्जनं हरीतक्याश्चूर्णं तेनैव गुण्ठनात् । नश्येद्वै पुरुषव्याधिं नात्र कार्य्या विचारणा” ॥ इति गारुडे १९० अध्यायः ॥ * ॥ अन्यच्च । “गव्यं घृतं सैन्धवसंप्रयुक्तं शम्बूकभाण्डे निहितं तदेव । सप्ताहमादित्यकरैर्व्विपक्वं हन्यात् कुरण्डं चिरजं प्रवृद्धम्” ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुरण्ड¦ पु॰ कुर--अण्डक्

१ साकरुण्डवृक्षे राजनि॰।

२ अण्डवृद्धिरोगे हेमच॰ तन्निदानादि माधवनिदा-नोक्तं यथा-
“क्रुद्धोऽनूर्द्धगतिर्वायुः शोथशूलकरश्चरन। मुष्कौ[Page2122-a+ 38] --वङ्क्षणतः प्राप्य फलकोपाभिवाहिनोः। प्रपीड्य धमनीर्वृद्धिं करीति फलकोषयोः। दोषास्रमेदोमूत्राम्भोभिर्वृद्धःसप्तधा गदः। मूत्रान्द्रजातावनिलाद्धेतुभेदश्चकेवलम्। वातपूर्णाङ्गतस्पर्शे रूक्षोवातादहेतुरुक्। पक्वोडुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान्। कफा-च्छीतो गुरुः स्निग्धः कण्डूमान् कठिनोऽल्परुक्। कृष्ण-स्पोटावृतः पित्तवृत्तिलिङ्गश्च रक्तजः। कफवन्मेदसावृत्तिर्मृदुस्तालफलोपमः। मूत्रवारणशीलस्य मूत्रजः सतु गच्छतः। अम्भोभिः पूर्णदृतिवत् क्षोभं याति सरु-ङ्मृदुः। मूत्रकृच्छ्रमधः स्याच्च चालयन् फलकोषयोः। वातकोपिभिराहारै, शीततोयावगाहनैः। धारणे रणभाराध्वविषमाङ्गप्रवर्त्तनैः। क्षोभणैः क्षुभितश्चान्यैःक्षुद्रान्त्रावयवं यदा। पवनो विगुणीकुत्य स्वनिवेशादधो-{??}येत्। कुर्य्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तथा।{??}ठपेक्षमाणस्य च मुष्कवृद्धिमाध्मानरुक् स्तममवतींस वायुः। प्रपीडितोऽन्तःस्वनवान् प्रयाति प्रध्मापयन्नेतिपुनश्च मुक्तः। अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः”

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुरण्ड¦ m. (-ण्डः) Enlargement of the testicles or rather of the scrotum, including inguinal hernia, hydrocele, &c. E. कु bad, ill, रम् to play, and ड aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुरण्डः [kuraṇḍḥ], Enlargement of the testicles or of the scrotum, hydrocele.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुरण्ड m. the plant commonly called साकुरुण्डL.

कुरण्ड m. enlargement of the testicles or rather of the scrotum (including inguinal hernia etc. ) L.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--a commander of भण्ड expert in माया and skilled in चित्रयुद्ध or कूटयुद्ध; an elder brother of Durmada; killed by देवी. Br. IV. २१. ७७; २२. ७१-108.

"https://sa.wiktionary.org/w/index.php?title=कुरण्ड&oldid=496671" इत्यस्माद् प्रतिप्राप्तम्