कुरुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुरुः, पुं, (कृ + “कृग्रोरुच्च” । उणां १ । २५ । इति कुः उच्च ।) आग्नीध्रराजपुत्त्रः । स तु प्रियव्रत- राजपौत्त्रः । (स्वायम्भुवमनोः प्रपौत्त्रः उत्तरकुरु- राज्यं प्राप्तवांश्च । तत्रत्या नदी च भद्रेति नाम्ना विश्रुता । यथा विष्णुपुराणे । २ । १ । १६-२२ । “जम्बुद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ! । तस्य पुत्त्रा बभूवुस्ते प्रजापतिसमा नव ॥ नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः । रम्यो हिरण्वान् षष्ठश्च कुरुर्भद्राश्व एव च ॥ केतुमालस्तथैवान्यः साधुचेष्टो नृपोऽभवत् । जम्बुद्वीपविभागांश्च तेषां विप्र ! निशामय ॥ पित्रा दत्तं हिमाह्वन्तु वर्षं नाभेस्त दक्षिणम् । हेमकूटं तथा वर्षं ददौ किम्पुरुषाय सः ॥ तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान् । इलावृताय प्रददौ मेरुर्यत्र तु मध्यगः ॥ नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता । श्वेतं तदुत्तरं वर्षं पित्रा दत्तं हिरण्वते ॥ यदुत्तरं शृङ्गवतो वर्षं तत्कुरवे ददौ । मेरोः पूर्ब्बेण यद्वर्षं भद्राश्वाय प्रदत्तवान्” ॥ वैवस्वतमनुवंश्यश्चन्द्रवंशीयराजविशेषः । स तु सम्बरणराजभार्य्यायां सूर्य्यकन्यायां तपत्यां जातः । अयमेव कुरुक्षेत्रपतिः । धार्त्तराष्ट्रपाण्डवानां पूर्ब्बपुरुषः । यथा, -- “योऽजमीढसुतस्त्वन्य ऋक्षः सम्बरणस्ततः । तपत्यां सूर्य्यकन्यायां कुरुक्षेत्रपतिः कुरुः ॥ परीक्षित् सधनुर्जह्नुर्निषधाश्वः कुरोः सुताः” ॥ इति श्रीभागवते । ९ । २२ । ४ ॥) भक्तम् । देशविशेषः । इति मेदिनी ॥ स तु जम्बुद्वीपस्य नववर्षान्तर्गत- वर्षविशेषः । इति ज्योतिषम् ॥ तद्देशवासी । तत्र बहुवचनान्तः । (यथा गीतायाम् १ । २५ । “उवाच पार्थ ! पश्यैतान् समवेतान् कुरूनिति” ॥) कण्टकारिका । इति शब्दचन्द्रिका ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुरुः [kuruḥ], (pl.)
N. of a country situated in the north of India about the site of the modern Delhi; श्रियः कुरूणा- मधिपस्य पालनीम् Ki.1.1; चिराय तस्मिन् कुरवश्चकासति 1.17.
The kings of this country.
रुः A priest.
Boiled rice. -Comp. -क्षेत्रम् N. of an extensive plain near Delhi, the scene of the great war between the Kauravas and Pāṇḍavas; धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः Bg.1.1; Ms.2.19. -क्षेत्रियोगः a solar day in the course of which three lunar days, three asterisms and three yogas occur. The yoga is indicative of death; पञ्चग्रहयुते मृत्यौ लग्नसंस्थे बृहस्पतौ । सौम्यक्षेत्रगते लग्ने कुरुक्षेत्रे मृति- र्भवेत् ॥ -चिल्लः a crab. -जाङ्गलम् = कुरुक्षेत्र q. v. -नन्दनः epithet of Arjuna; Bg.2.41;6.43. -पञ्चालाः N. of a country; कुरुपञ्चालानां ब्राह्मणाः Bṛi. Up.3.9.19. -बिल्वः a ruby. -राज् m.
राजः an epithet of Duryodhana. स्वस्था भवन्तु कुरुराजसुताः सभृत्याः Ve.1.7.
N. of Yudhi- ṣṭhira; कस्यचित्त्वथ कालस्य कुरुराजो युधिष्ठिरः Mb.16.1.7.-विस्तः a weight of gold equal to about 7 Troy grains. -वृद्धः an epithet of Bhīṣma; तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः Bg.1.12.
