कुरुक्षेत्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुरुक्षेत्रम्, क्ली, (कुरुणा चन्द्रवंशोद्भवेन राजविशेषेण भूरितपसोपार्ज्जितं धर्म्मक्षेत्रनाम्ना प्रसिद्धं कुरुदेशान्तर्गतं क्षेत्रम् । शाकपार्थिवादित्वात् मध्यपदलोपः ।) देशविशेषः । तत्तु धर्म्मक्षेत्रम् । (किञ्चास्मिन्नेव क्षेत्रे क्षत्त्रियकुलारण्यकुठारेण भृ- गुवंशधुरन्धरेण भगवता जामदग्र्यरामेण क्षत्त्रि- यशोणितैः पञ्च ह्रदाः कृताः तदारभ्य च क्षेत्रमेतत् समन्तपञ्चकनाम्नोच्यते । नितरामेवात्र युध्यतां क्षत्त्रियाणां शरीरविसर्ज्जनेन पुण्यप्राचुर्य्यात् वैकुण्ठप्राप्तिः । तत एवात्र कुरुपाण्डवानां सुमह- द्युद्धं निर्वृत्तम् । एतद्विवरणं महाभारतीये १२ । ४८ अध्याये श्रीकृष्णयुधिष्ठिरसंवादे द्रष्टव्यम् ॥ यथा भगवद्गीतायाम् १ । १ । “धर्म्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्व्वत सञ्जय !” ॥ एतत्क्षेत्रस्य सीमानिर्द्देशे बहूनि मतानि लक्ष्यन्ते दिङ्मात्रमुदाहृतमत्र । यथा, हेमचन्द्रः । “धर्म्मक्षेत्रं कुरुक्षेत्रं द्वादशयोजनावधि” ॥ तथा त्रिकाण्डशेषेऽपि । “कुरुक्षेत्रं प्रयागञ्च हिमाद्रिं विन्ध्यमन्तरा” ॥ एष हि ब्रह्मर्षिदेशः । यथा, मनौ । २ । १९ । “कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः । एष ब्रह्मर्षिदेशो वै ब्रह्मावर्त्तादनन्तरः” ॥)
