कुरुविन्दम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुरुविन्दम्, क्ली, (कुरून् विन्दति + विदिलाभे “अनु- पसर्गात् लिम्पविन्दधारिपारिवेद्युदेजिचेति साति साहिभ्यश्च” । ३ । १ । १३८ । इति शः मुचा- दित्वात् नुम् च ।) काचलवणम् । माणिक्यम् । इति राजनिर्घण्टः ॥ कुरुविल्वरत्नम् । कुल्माष- शस्यम् । इति मेदिनी ॥ (क्वचिदस्य पुंलिङ्गत्व- मपि दृश्यते । यथा, सुश्रुते सूत्रस्थाने ३६ अः । “कासीससैन्धवं किण्वं कुरुविन्दो मनःशिला” ॥)
