सामग्री पर जाएँ

कुलकुण्डलिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुलकुण्डलिनी स्त्री, (कुले कुलचक्रे पृथिवीतत्त्व- रूपेमूलाधारे कुण्डलाकृत्या सार्द्ध- त्रिवलयाकारेण स्वयम्भुलिङ्गं वेष्टयित्वा तिष्ठतीति । कुल + कुण्डलिन् + ङीप् । कुण्डल + ङीष् । यद्वा कौ पृथिवीतत्त्वाधारे मूलाधारे इत्यर्थः लीयते इति । कु + ली + अन्येभ्योपीति डः । ततः कर्म्म धारयः ।) मूलाधारपद्मस्थितशिवशक्तिविशेषः । यथा । पूर्णानन्दकृतषट्चक्रप्रकाशः ।

कुलकुण्डलिनी स्त्री, (कुले कुलचक्रे पृथिवीतत्त्व- रूपे मूलाधारे कुण्डलाकृत्या सार्द्ध- त्रिवलयाकारेण स्वयम्भुलिङ्गं वेष्टयित्वा तिष्ठतीति । कुल + कुण्डलिन् + ङीप् । कुण्डल + ङीष् । यद्वा कौ पृथिवीतत्त्वाधारे मूलाधारे इत्यर्थः लीयते इति । कु + ली + अन्येभ्योपीति डः । ततः कर्म्म धारयः ।) मूलाधारपद्मस्थितशिवशक्तिविशेषः । यथा । पूर्णानन्दकृतषट्चक्रप्रकाशः । “कूजन्ती कुलकुण्डली च मधुरं मत्तालिमालास्फुटं वाचः कोमलकाव्यबन्धरचनाभेदातिभेदक्रमैः । श्वासोच्छ्वासविवर्त्तनेन जगतां जीवो यया धार्य्यते सा मूलाम्बुजगह्वरे विलसति प्रोद्दामदीप्तावली” ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुलकुण्डलिनी¦ स्त्री कौ पृथिवीतत्त्वाधारे मूलाधारे लीयतेली--ड कर्म्म॰। तन्त्रोक्ते मूलाधारे सर्पीवदवस्थितेशिवशक्तिभेदे कुलकुण्डलीत्यप्यत्र स्त्री। तत्स्वरूपा-दिकं शारदायामुक्तम् यथा
“ततश्चैतन्यरूपा सा सर्व्वगाविश्वरूपिणी। शिवसन्निधिमासाद्य नित्यानन्दगुणो-दया। दिक्कालाद्यनवच्छिन्ना सर्व्ववेदार्थगा शुभा। परापरविभागेन परशक्तिरियं स्मृता। योगिनां हृद-याम्भोजे नृत्यन्ती नित्यमञ्जसा। आधारे सर्व्वभूतानांस्फुरन्ती विद्युदाकृतिः। शङ्खावर्त्तक्रमाद्देवी सर्व्वमा-वृत्य तिष्ठति। कुण्डलोभूतसर्पाणामङ्गश्रियमुपेयुषी। गुणिता सर्व्वगात्रेषु कुण्डली परदेवता। विश्वात्मना प्र-बुद्धा सा सूते मन्त्रमयं जगत्। सर्व्वदेवमयी देवी सर्वमन्त्रमयी शिवा। सर्वतत्त्वमयी सालात् सूक्ष्मा सूक्ष्म-तरा विभुः। त्रिधामजननी देवी सोमसूर्य्याग्निरूपिणी। त्रिभेदनेजसां कर्त्री शब्दब्रह्मस्वरूपिणी। द्विचत्वारिंश-द्वर्ण्णामा पञ्चाशद्वर्ण्णरूपिणी”। विवृतमेतत् पदार्थादर्शेराघवभट्टेन यथा
“कुण्डलिनोत उत्पत्तिमाह तत-श्चैतत्येति। तदुक्तं
“मूलाधारात् प्रथममुदितोयस्तुशब्दः पराख्यः पश्चात् पश्यन्त्यघ हृटयगोबुद्धियुग्[Page2128-b+ 38] मध्यमाख्यः। वक्त्रे वैखरर्य्यथ रुरुदिषोरस्य जन्तोःसुषुम्णाबद्धस्तस्माद्भवति पवनप्ररितोवर्णसंघः”। ततःशरीरोत्पत्त्यनन्तरं चैतन्यरूपा अतएव शब्दब्रह्मयीसा देवी कुण्डली परदेवता सर्वगात्रेण गुणिता अतएवविश्वात्मना सर्वात्मना प्रबुद्धा जातप्रबोधा मन्त्रमयंजगत् सूत इति दूरेण सम्बन्धः। तत्र मूलाधारे कु-ण्डलीभूतसर्पवन्नाडीवर्त्तते तन्मध्ये वायुवशादस्याः स-ङ्करणमेव गुणनम्। चैतन्यरूपेति स्वरूपाख्यानं साप्रसिद्धा सर्वमावृत्य तिष्ठतीत्यनेन कर्त्तृव्याप्तिर्दर्शिता विश्व-रूपिणीत्यनेन विषयव्याप्तिः। शिवसन्निधिमासाद्य स्थि-तेति शेषः अनेन शैवसिद्धान्ते शक्तिशब्दवाच्येयमि-त्युक्तं सन्निधिशब्दोऽप्यौपचारिवः तन्मते शिवशक्त्योर-भेदात् तदुक्तमभिनवगुप्तपादाचार्य्यैः
“शक्तेश्च शक्ति-मद्रूपाद्व्यतिरेकंन वाच्छति। तादात्म्यमनयोर्नित्यं वह्नि
“हनयोरिव”। यद्वा सम्पस्यङ्निधिस्वरूपं शिवस्वरूपंप्राप्येत्यर्थः वक्ष्यति च
“पिण्डम्भवेत् कुण्डलिनी शिवा-त्मेति” गुणानां सत्वरजस्तमसामुदयोयस्याः सा नित्या-नन्दा चासौ गुणोदया च सा नित्यानन्दगुणोदया तेनकुण्डलिनीस्वरूपमुक्त गुणोदयेत्यनेन साङ्ख्यमते प्रकृतिवाच्येयमित्युक्तं यदाहुः
“प्रधानमिति यामाहुर्या शक्ति-रिति कथ्यते” इति इदानीमध्यात्माधिभूताधिदैवादिविषयादिज्योतिषक्रमेण तस्या व्याप्तिमाह दिक्वालेतिसर्व्वदेहानुगेति देहव्याप्तिः परापरविभागेन काचन पराशक्तिः काचनापरा तद्विभागेनापीयं परशक्तिरेव यदाहुः
“भूमिरापोऽनलोवायुः खंमनोबुद्धिरे व च। अहङ्कारइतीयं मे भिन्ना प्रकृतिरष्टधा। अपरेयमितस्त्वन्यां प्रकृतिंविद्वि मे पराम् जीवभूतां महावाहो। ययेदं धार्प्यतेजगत्” (गीता)। यद्वा परः स्थूलः अपरः महास्थूलःमहदादिः तद्विभागेन परशक्तिः स्थूला शक्तिः स्थूलात्-स्थूलेत्युक्तेः। अनेन महदादिव्याप्तिः यद्वा सव्व देहानुगेत्य-नेन प्राकृतशब्दतोर्थ तश्व पुंस्त्रीनपुं सकलिङ्गव्याप्तिर्द्दर्शितशब्दतो यथा शिव इत्युच्यते कण्डलिनीत्युच्यते प्रधानमितिएवंभूतापि सा स्त्रीत्वेनैव निर्द्दिश्यत इव्याह परापरेतिपरा पुंप्रकृतिः अपरं नपुंसकप्रकृतिस्तद्विभागेन इयंपरशक्तिःस्मृता अयमर्थः यद्यपि लिङ्गत्रयवाच्या तथापितूर्णमेवाचलभक्तिभारपरिश्रान्तमक्तजनसमस्ताकाङ्क्षाक-ल्पबल्ली परशक्तिषब्दवाच्येति। अत एव शुभा रमणी-या यदाहुराचार्य्याः” पुंनपुंसकयोस्तुल्याप्यङ्गनायां वि-[Page2129-a+ 38] शिष्यत” इति नित्यक्लिन्नाम्नायेऽपि
“सर्व्वत्रावच्छिता-प्येषा कामिनीषु विशेषतः। प्रकाशते ततस्तासामतिवृत्तिंन कारयेदिति” अञ्जसा तत्त्वं न योगिनां हृदयाम्भोजेनृत्यन्तीत्यस्य तैरेव गुरूपदेशेन ज्ञायते इत्यर्थः।
“दृश्यातैरेव सा देवी सदा देशकदेशितैरित्युक्तेः सर्वभूतानाम् आधारेमूलाधारचक्रे स्फुरन्ती अनेन स्थाननिर्देशः विद्युदाकृति-रित्यनेन ध्यानमुक्तं यदाहुः
“तडित्कोटिप्रख्यां स्वरुचि-जितकालानलरुचिमिति” अथ बानेन अनेकशब्दोत्-पत्तिहेतुत्वेनानेकधा भवतीत्यु{??} ङ्खमध्ये य आवर्त्तःस यथा शङ्खमध्यमावृत्य तिष्ठति तद्वदियमपि देवीत्यर्थः। इदमवान्तरवाक्यं भिन्नमेव शङ्खेति कुण्डलीत्यनयोर्हेतुहेतुमद्भावेन योजना। कुण्डलीभूता कुण्डलाकारतांप्राप्ता ये सर्पा तथाभूता। केचन कुण्डलीति भिन्नं पदंवर्णयन्ति भूतानि सर्पाश्च ते यथा कुटिलगतयस्तद्वदिय-मपीत्यर्थः इति तत्र कुण्डली परदेवतेत्यनेन पुनरुक्तिः। सर्व्वदेवमयीति देवव्याप्तिः दीव्यतीति देवी तेजोरूपेत्यर्थःअनेन तेजोव्याप्तिः। सर्वमन्त्रमयीति मन्त्रव्याप्तिः। शिवाशिवरूपेत्यर्थः यद्वा शिवा कल्याणरूपा। साक्षात् सर्व-तत्त्वमयीति तत्त्वव्याप्तिः। सूक्ष्मा सूक्ष्मतरा विमुरितिविरोधः परिहारस्तु सूक्ष्मा स्वरूपतः सूक्ष्मतरा दुर्ज्ञानायद्वा सूक्ष्मात् त्रसरेणोरपि सूक्ष्मतरा अणुतरा अनेनाण्वादिव्याप्तिर्द्दर्शिता तदुक्तं
“बालाग्रस्य सहस्रधा वि-दलितस्यैकेन भागेन या सूक्ष्मत्वात् सदृशी त्रिलो जननीति” विभुः इयत्तया ज्ञातुमशक्या। त्रिधामेति सूर्यसो-माग्निरूपा। यद्वा त्रिधामेति स्थानत्रयं पातालभूखर्गरूपाअनेन स्थानव्याप्तिर्दर्शिता द्विचत्वारिंशद्वर्ण्णात्मा भूतलिपिमन्त्रमयी पञ्चाशद्वर्णरूपिणीति मातृकामयी”। तस्या ध्यानादिकमुक्तं प्रयोगसारे यथा
“मूलाधारे कुण्डलिनीं ध्यात्वा संपूजयेन्नरः। ध्यानंतस्याः प्रवक्ष्यामि येन योगी प्रजायते। प्रसुप्तभुज-गाकारां स्वयम्भूलिङ्गमाश्रिताम्। विद्युत्कोटिप्रभांदेवीं विचित्रवसनान्विताम्। शृङ्गारादिरसोल्लासां सर्व्व-दा कारणप्रियाम्। एवंध्यात्वा कुण्डलिनीं ततोयजेत्समाहितः। मनसा गन्धपुष्पाद्यैः संपूज्य वाग्भवं जपेत्। ततोवै तोषयेत्ताञ्च स्तवेनानेन साधकः।
“रुद्रजामले” अ-थ प्रातः समुत्थाय पशुरुत्तमपण्डितः। गुरूणां चरणा-म्भोजं मङ्गलं शीर्षपङ्कजे। विभाव्य पुनरेवं हि श्रीपदंभावयेधृदि। पूजयित्वा च विविधैरुपचारैर्नमेत् स्तवैः। [Page2129-b+ 38] त्रैलोक्यं तेजसा व्याप्तां मण्डलस्थां महात्सवाम्। तडि-त्कोटिप्रभादी प्तिंचन्द्रकोटिसुशीतलाम्। सार्द्धत्रिबलया-कारां स्वयम्भूलिङ्गवेष्टिताम्। उत्थापयेन्महादेवीं म-हावक्त्रां मनोन्मनीम्। श्वासोच्छ्वासादुद्गच्छन्तीं द्वाद-शाङ्गुलरूपिणीम्। योगिनीं खेचरी वायुरूपां मूलाम्बु-जस्थिताम्। चतुर्व्वर्णस्वरूपां तां वकारादिकसान्तकाम्। कोटिकोटिसहस्रार्ककिरणोज्ज्वलमोहिनीम्। महासू-क्ष्मपथप्रान्तरन्तरान्तरगामिनीम्। त्रैलोक्यरक्षितां वाक्यदेवतां शब्दरूपिणीम्। महाबुद्धिप्रदां देवीं सहस्रदलगामिनीम्। महासूक्ष्मपथेतेजोमयीं मृत्युस्वरूपिणीम्। कालरूपां ब्रह्मरूपां सर्वत्र सर्वचिन्मयीम्। ध्यात्वा पुनःपुनःशीर्षे सुधाब्धौ विनिवेशिताम्। सुधापानंकारयित्वापुनःस्थाने समानयेत्। समानयनकाले तु सुषुण्मामध्य-मध्यके। अमृताभिप्लुतां कृत्वा पुनःस्थानेषु पूजयेत्। ऊर्द्ध्वोद्गमनकाले तु महातेजोमयींस्मरेत्। प्रतिप्रयाणकाले तु सुधाधाराभिराप्ल्ताम्। कुलकुण्डलिनीं देवीममृतानन्दविग्रहाम्। ध्यात्वा ध्यात्वा पुनर्ध्यात्वा सर्व-सिद्धीश्वारोभवेत्। तस्मिन् स्थाने महादेवौ विभाव्यकिरणोज्ज्वलाम्। अमृतानन्दमूर्त्तिं तां पूजयित्वाशुभां मुदा। मानसोच्चारवीजेन मायां वा कामवीज-कम्। पञ्चाशद्वर्णमालाभिर्जत्वानुलोमतस्तथा। विलोमेनपुनर्जत्वेति”

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुलकुण्डलिनी/ कुल--कुण्डलिनी f. N. of a particular शक्ति.

"https://sa.wiktionary.org/w/index.php?title=कुलकुण्डलिनी&oldid=496719" इत्यस्माद् प्रतिप्राप्तम्