सामग्री पर जाएँ

कुलत्थः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुलत्थः, पुं, (कुलं भूमिलग्नं सत् तिष्ठति । कुल + स्था + कः । पृषोदरात् साधुः ।) शस्यभेदः । कुल- त्थकडाइ इति भाषा ॥ (यथा, मार्कण्डेये । १५ । ७ । “धान्यंयवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान्” ॥) तत्पर्य्यायः । कालवृन्तः २ ताम्रवृक्षः ३ कुल- त्थिका ४ । इति रत्नमाला ॥ ताम्रवृन्तः ५ । इति त्रिकाण्डशेषः ॥ ताम्रवीजः ६ सितेतरः ७ । इति राजनिर्धण्टः ॥ अस्य गुणाः । कफवातगुल्म- शुक्राश्मरीमेदःश्वासकासप्रमेहनाशित्वम् । वृंह- णत्वम् । उष्णत्वम् । कटुत्वम् । ग्राहित्वञ्च । इति राजवल्लभः ॥ कषायत्वम् । रूक्षत्वम् । रक्तपित्त- कारित्वम् । बलनाशित्वञ्च । अस्य यूषगुणः । वायु- शर्क्कराश्मरीनाशित्वम् । इति राजनिर्घण्टः ॥ (अस्य अपरे पर्य्यायगुणा यथा, -- “कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणा अथ । कुलत्थः कटुकः पाके कषायः पित्तरक्तकृत् । लघुर्विदाही वीर्य्योष्णः श्वासकासकफानिलान् ॥ हन्ति हिक्काश्मरीशुक्रदाहानाहान् सपीनसान् । स्वेदसंग्राहको मेदोज्वरक्रिमिहरः परः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ * ॥ “उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः । शुक्राश्मरीगुल्म-निषूदनश्च संग्राहकः पीनसकासहारी ॥ आनाहमेदोगुदकीलहिक्का श्वासापहः शोणितपित्तकृच्च । कफस्य हन्ता नयनामयघ्नो विशेषतो वन्यकुलत्थ उक्तः” ॥ इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ * ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुलत्थः [kulatthḥ], A kind of pulse; Mb.13.111.71. -त्थिका A blue stone used as a collyrium.

"https://sa.wiktionary.org/w/index.php?title=कुलत्थः&oldid=283056" इत्यस्माद् प्रतिप्राप्तम्