कुलनाशन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुलनाशन¦ न॰ कुलं नाशयत्यनेन नश--णिच्--करणे ल्युट्। वंशध्वंससाधने।
“मुसलं कुलनाशनम्। यथा च मु-सलेन वृष्णिप्रभृतिकुलनाशनं तथा भा॰ सौ॰
१ अ॰ उक्तं यथा
“विश्रामित्रञ्च कण्वञ्च नारदञ्च तपोधनम्। सारणप्रमुखावीरा ददृशुर्द्वारकां गतान्। ते तान् शाम्बं पुरस्कृत्यभूषयित्वा स्त्रियं यथा। अव्रुवन्नुपसङ्गम्य दैवदण्डनि-पीडिताः। इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः। ऋषयः साधु जानीत किमयं जनयिष्यति। इत्युक्तास्तेतदा राजन् विप्रलम्भप्रधर्षिताः। प्रत्युब्रुवस्तान्मुनयोयत्तच्छृणु नराधिप!। वृष्ण्यन्धकविनाशाय मुसलं वोर-मायसम्। वासुदेवस्य दायादः शाम्बोऽयं जनयिष्यति। येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः। उच्छेत्तारःकुलं कृत्स्नमृते रामजनार्द्दनौ। समुद्रं यास्यति श्री-मांस्त्यक्त्वा देहं हलायुधः। जरा कृष्णं महात्मानंशयानं भुवि भेत्स्यति। इत्यब्रुवंस्ततो राजन्! प्रल-ब्धास्तैर्दुरात्मभिः। मुनयः क्रोधरक्ताक्षाः सभीक्ष्याथ प-रस्परम्। तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः। अथा-ब्रवीत्तदा वृष्णीन् श्रुत्वैवं मधुसूदनः। अन्तज्ञो मतिमां-स्तस्य भवितव्यं तथेति तान्। एवमुक्त्वा हृषीकेशः प्रवि-वेश पुरन्तदा। कृतान्तमन्यथा नैच्छत् कर्त्तुं स जगतःप्रभुः। श्वोभूतेऽथ ततः शाम्बो मुसलं तदसूत वै। येनवृष्ण्यन्धककुले पुरुषा भस्मभात्कृताः। वृष्ण्यन्धकविना-शाय किङ्करप्रतिमं महत्। असूत शापजं घोरं तच्चराज्ञे न्यवेदयन्। विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकार-यत्। तच्चूर्णं सागरे चापि प्राक्षिपन् पुरुषा नृप!”( चूर्णीकृतस्य तर्स्यसमुद्रे एरकाभावमुक्त्वा एरकाभूतेनसुसलेन
३ अ॰ परस्परनाशोवर्णितः यथा
“ते तु पानमदाविष्टाश्चोदिताः कालधर्मणा। युयुधान-मथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा। हन्यमाने तु शैनेयेक्रुद्धो रुक्मिणिनन्दनः। तदनन्तरमागच्छन्मोक्षयिष्यतशिनेः सुतम्। स भोजैः सह संयुक्तः सात्यकिश्चान्धलैःसह। व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ। बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः। हतं दृष्ट्वातु शैनेयं पुत्रञ्च यदुनन्दनः। एरकाणान्तदा मुष्टि[Page2132-a+ 38] कोपाज्जग्राह केशवः। तदभून्मुसलं घोरं वज्रकल्पम-योमयम्। जघान कृष्णस्तांस्तेन ये ये प्रमुखतोऽभवन्। ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा। जघ्नुरन्यो-न्यमाक्रन्दे मुसलैः कालचोदिताः। यस्तेषामेरकां कश्चि-ज्जग्राह कुपितो नृष!। वज्रभूतेव सा राजन्नदृश्यत तदाविभो। तृणञ्च मुसलीभूतमपि तत्र व्यदृश्यत। ब्रह्मदण्ड-कृतं सर्वमिति तद्विद्धि पार्थिव!। अविध्यन् विध्यते रा-जन्! प्रक्षिपन्ति स्म यत्तृणम्। तद्वज्रभूतं मुसलं व्यदृश्यततदा दृढम्। अबधीत् पितरं पुत्रः पिता पुत्रञ्च भारत!। मत्ताः परिपतन्ति स्म योधयन्तः परस्परम्। पतङ्गा इवचाग्नौ ते निपेतुः कुकुरान्धकाः। नासीत् पलायने बुद्धि-र्बध्यमानस्य कस्यचित्। तत्रापश्यन्महाबाहुर्ज्जानन् का-लस्य पर्य्ययम्। मुसलं मभवष्टभ्य तस्थौ स मधुसूदनः। शाम्बञ्च निहतं दृष्ट्वा चारुदेष्णञ्च सान्वयम्। प्रद्युम्नञ्चा-निरुद्धञ्च ततश्चुक्रोध माधवः। गदं वीक्ष्य शयानञ्च भृशंकोपसमन्वितः। स निःशेषं तदा चक्रे शार्ङ्गचक्रगदा-धरः। तं निघ्नन्तं महातेजा बभ्रुः परपुरञ्जयः। दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत्। भगवन्निहताःसर्वे त्वया भूयिष्ठशो नराः। रामस्य पदमन्विच्छ तत्रगच्छाम यत्र सः। ” भावे ल्युट्।
२ वंशनाशने च।
