सामग्री पर जाएँ

कुलपतिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुलपतिः, पुं, (कुलस्य वंशस्य गोत्रस्य वा पतिः स्वामी ।) कुलस्वामी । गोत्रप्रधानः । कुलनाथः । यथा । “अथ सिन्धुसौवीरपतेरहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिविकावाहपुरु- षान्वेषणसमये दैवेनोपसादितः स द्विजवर उप- लब्धः” । इति श्रीभागवते ५ । १० । १ ॥ (कुलस्य छात्रवर्गस्य पतिः पालकः । अन्नदानपोषणपूर्ब्बकं अध्यापको मुनिविशेषः । उक्तञ्च । “मुनीनां दशसाहस्रं योऽन्नदानादिपोषणात् । अध्यापयति विप्रर्षिः स वै कुलपतिः स्मृतः” ॥)

"https://sa.wiktionary.org/w/index.php?title=कुलपतिः&oldid=127695" इत्यस्माद् प्रतिप्राप्तम्