सामग्री पर जाएँ

कुलसत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुलसत्र¦ न॰ कुलैः कुलजैरनुष्ठेयं सत्रम्। पित्रादिक्रमेणा-नुष्ठये सहस्रवर्षसाष्ये कार्ष्णाजिनिमतसिद्धे सत्रभेदे तच्चकात्या॰ श्रौ॰

१ ,

६ ,

२३ , दर्शितं यथा
“कुलसत्रमिति कार्ष्णाजिनिः” सू॰।
“कार्ष्णाजिनि र्मुनि-रित्याह एवं कथयति यत् कुलसत्रमेतत् सहस्रसंवत्-सरं भवति कुलस्य पितृपुत्रपौत्रप्रपौत्रतत्पुत्रादिरूपस्य[Page2133-b+ 38] वंशस्येतत्भवति न त्वेकस्य कस्यचित् असम्भवात्। मनु-ष्याधिकारं चैतत् प्रारब्धं चावश्यं समापनीयं नचैकःशक्नोति समापयितुमिति यथा शक्यते तथा समापनीयमिति गम्यमाने ये वहवस्ते शक्नुवन्ति तेन तत्कुलीनाःक्रमेण कैश्चिदारब्धं कैश्चिन्मध्येऽनुष्ठितं केचित् समा-पयिष्यन्तीत्येवं कुलसत्रं कार्ष्णागिनिमन्यते” कर्कः वर्षशब्दस्य दिनपरत्व कल्पनेन कात्यायनेनेदं दूषितम्।

"https://sa.wiktionary.org/w/index.php?title=कुलसत्र&oldid=283589" इत्यस्माद् प्रतिप्राप्तम्