सामग्री पर जाएँ

कुलाकुलचक्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुलाकुलचक्र¦ न॰ कुलञ्च अकुलं कुलाकुलम् तर्योविचारार्थंचक्रम्। तन्त्रोक्ते ग्राह्यमन्त्रस्य शुभाशुभताज्ञानार्थेचक्रभेदे तद्विवृतिः तन्त्रसारे
“कुलाकुलस्य भेदं हि वक्ष्यामि मन्त्रिणामिह”। इत्यु-क्रम्य निबन्धे
“वाय्वग्निभूजलाकाशपञ्चाशल्लिपयः क्रमात्। पञ्च ह्रस्वाः पञ्च दीर्घा विन्द्वन्ताः सन्धिसम्भवाः (यादया)। कादयः पञ्चशः षक्षलसहान्ताः समीरिताः”। अ आ एकचटतपयषा मारुताः। इ ई ऐ ख छ ट थ फरक्षा आग्नेयाः। उ ऊ ओ ग ज ड द बललाः पा-र्थिवाः। ऋ ॠ औ घ झ ढ ध भ वसा वारुणाः। ऌॡ अं ङ ञ ण नमशहा नाभसाः।
“साधकस्याक्षरंपूर्ब्बं मन्त्रस्यापि तदक्षरम्। यद्येकभूतदैवत्यं जानी-यात् स्वकुलं हि तत्। भौमस्य वारुणं मित्रमाग्ने-यस्यापि मारुतम्। मारुतं पार्थिवानाञ्च शत्रुराग्नेय-मम्भसाम्”। चकारादाग्नेयं पार्थिवानां शत्रुः। त-थाच रुद्रयामले
“पार्थिवे वारुणं मित्रं तैजसं शत्रु-रीरितः। ऐन्द्रवारुणयोः शत्रुर्मारुतं स प्रकीर्त्तितः। नाभसं सर्वमित्रं स्यात् विरुद्धे नैव शीलयेत्। मित्रेसिद्धिः समाख्याता उदासीने न किञ्चन। मृत्युर्व्या-धिरमित्रे च स्वकुले सिद्धिरुत्तमा”।

"https://sa.wiktionary.org/w/index.php?title=कुलाकुलचक्र&oldid=283693" इत्यस्माद् प्रतिप्राप्तम्