सामग्री पर जाएँ

कुलाचलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुलाचलः, पुं (कुलसंज्ञकः अचलः पर्व्वतः । शाक- पार्थिवादिवत् मध्यपदलोपः ।) कुलपर्व्वतः । यथा । “अष्टकुलाचलसप्तसमुद्रा ब्रह्मपुरन्दरदिनकररुद्राः । न त्वं नाहं नायं लोक- स्तदपि किमर्थं क्रियते शोकः” ॥ इति मोहमुद्गरे ७ ॥ सप्तकुलपर्व्वता यथा । “सप्त येऽस्मिन् महापर्व्वाः विस्तृताः कुलपर्व्वताः । माहेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ॥ विन्ध्यश्च पारिपात्रश्च इत्येते कुलपर्व्वताः” ॥ इति मात्स्ये ९५ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=कुलाचलः&oldid=127727" इत्यस्माद् प्रतिप्राप्तम्