सामग्री पर जाएँ

कुलिशम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुलिशम्, क्ली, पुं, (कुलौ हस्ते शेते अवतिष्ठते । कुल + शी + डः । यद्वा कुलिनः पर्व्वतान् श्यति दारय- तीति । शो + डः । “आतोनुपसर्गे कः” । ३ । २ । ३ । इति को वा ।) वज्रम् । इत्यमरभरतौ ॥ (यथा, कुमारे । १ । २० । “क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रा- ववेदनाज्ञं कुलिशक्षतानाम्” ॥ कु ईषत् कुत्सितं वा लिशति । कु + लिश अल्पी- भावे गतौ च + कः ।) मत्स्यविशेषः । तत्पर्य्यायः । कण्टकाष्ठीलः २ । इति त्रिकाण्डशेषः ॥ (यथा, सुश्रुते सूत्रस्थाने ६४ अध्याये । “तिमिमिङ्गिलकुलिशापाकमस्त्यनिरालकनन्दिवा- रलकमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः” ॥ कौ भूमौ लिशति अल्पीभवति कुंभूमिं लिशति गच्छति ह्रस्वतया प्राप्नोति वा ।) अस्थिसंहारवृक्षः । इति रत्नमाला ॥

"https://sa.wiktionary.org/w/index.php?title=कुलिशम्&oldid=127764" इत्यस्माद् प्रतिप्राप्तम्