कुलीनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुलीनः, पुं, (कुले प्रशस्तवंशे जातः । “कुलात् खः” । ४ । १ । १३९ । इति खः ।) श्रेष्ठघोटकः । तत्यर्य्यायः । आजानेयः २ । इत्यमरः ॥ अजा- नेयः ३ । इति तट्टीका ॥ स्वजानेयः ४ जात्यः ५ बालाश्विः ६ । इति शब्दरत्नावली ॥ (तन्त्र- शास्त्रोक्तकुलाचारव्रते स्थितः कौलः ॥) उत्तम कुलोद्भवे, त्रि । तत्पर्य्यायः । महाकुलः २ आर्य्यः ३ सभ्यः ४ सज्जनः ५ साधुः ६ । इत्यमरः । २ । ७ । ३ ॥ * ॥ अथाधुनिककुलीनलक्षणम् । कुलं उत्कर्षविशेषवंशः । इति सङ्केतम् । अथवा रूढ्य- र्थम् । तस्यापत्यमित्यर्थेकुलशब्दादीनप्रत्ययेन कुलीन इति पदसिद्धिरिति केचित् । अर्थात् कुलीन- शब्देन उत्कर्षविशेषवंशजातकव्यक्तिरिति । तथा च लक्षणम् । उत्कर्षविशेषधर्म्मावच्छिन्नवंशजात- कत्वे सति तद्धर्म्मवत्त्वं कुलीनत्वमिति । उत्कर्ष- विशेषस्तु नवधा गुणाः । ते च यथा । “आचारो विनयो विद्या प्रतिष्ठा तीर्थदर्शनम् । निष्ठाऽऽष्टत्तिस्तपो दानं नवधा कुलक्षणम्” ॥ अत एव उत्कर्षविशेषात्मकनवधागुणविशिष्टत्वं कुलीनत्वम् । एतेन इदानों साधारणसामान्य- जनानां यदि नवधा गुणा वर्त्तन्ते तदा तेऽपि कुलीनाः स्युस्तन्न । अनवच्छिन्नपर्य्यायत्वं कुलीनत्वम् । प्रमाणं यथा, -- “सपर्य्यायं समासाद्य दानग्रहणमुत्तमम् । कन्याऽभावे कुशत्यागः प्रतिज्ञा वा परस्परम्” ॥ तथा च । “कुलीनस्य सुतां लब्ध्वा कुलीनाय सुतां ददौ । पर्य्यायक्रमतश्चैव स एव कुलदीपकः” ॥ तथा च । “आदानञ्च प्रदानञ्च कुशत्यागस्तथैव च । प्रतिज्ञाघटकाग्रे च कुलकर्म्म चतुर्व्विधम्” ॥ इति कुलदीपिका ॥ * ॥ अथ वल्लालभूपालकृताः पञ्चगोत्रजराढीयब्राह्मणस्य ग्रामविशिष्टस्य मुख्य- गौणभेदेन द्वाविंशतिकुलीनाः यथा । शाण्डिल्य- गोत्रे भट्टनारायणवंशज आदिवराहवन्द्यः स मुख्यः । रामगडगडः निपकेशरकोणी गु~यी कुलभी वटु दिर्घाटिः वैकुण्ठपारियालः एते पञ्च गौणाः ॥ काश्यपगोत्रे दक्षवंशजः सुलोचनचट्टः स मुख्यः । जगहडः धीरगुडः काकपीतमण्डी एते त्रयो गौणाः ॥ भरद्वाजगोत्रे श्रीहर्षवंशजः धुरन्धर मुखयटी स च सुख्यः । विनायकदिण्डीसा~यी गन्ध- र्व्वरायी एतौ द्वौ गौणौ ॥ सावर्णगोत्रे वेदगर्भ- वंशजःवीरव्रतगाङ्गली सुधीरकुन्दः एतौ द्वौ मुख्यौ । वीरसूदनघण्टेश्वरः एष गौणः ॥ वात्स्यगोत्रे छान्दडवंशजः सुरभिघोषवालः कविकाञ्जिलालः रविपूतितण्डः एते मुख्याः । भानुचौटखण्डो पनिकालुमहिन्त्या वनमालिपिप्पली एते गौणाः ॥ अधुना एषां मध्ये मुख्या अष्टौ कुलीना गौणा- श्चौर्द्दशश्रोत्रियाः । अन्येऽपि पञ्चगोत्राज्जाताः सप्तत्रिंशच्छ्रोत्रियाः सन्ति ॥ ततो लक्षणसेनेन मुख्याष्टकुलीनो न विंशतिपुत्त्राणां समीकरणं कृतम् । तत एतेषां नानादोषदर्शनात् देवीवरेण फुलिया खडदहवल्लवीसर्व्वानन्दी इत्याद्याः षट्- त्रिंशन्मेलाः कृताः । ततो भागयूथथाक इति तिस्रः संज्ञा जाताः कुलाचार्य्यग्रन्थात् ज्ञेयाः ॥ * ॥ अथ वारेन्द्रब्राह्मणकुलीनाः । “आदौ मैत्रस्ततो भीमो रुद्रः संजामिनिस्तथा । लाहिडिर्भादुडिः साधुर्भादडाः पङ्क्तिपूरकाः” ॥ एषां नानादोषदर्शनात् कुलाचार्य्येण अष्टौ पटी इति संज्ञा कृता । तद्यथा । निराविला १ रोहिला २ भूष्णा ३ आलेखानी ४ कुतलखानी ५ वेणी ६ जोनाली ७ भवानीपुर ८ । एतेषां कुलाघातात् काप इति संज्ञा जाता ॥ * ॥ अथ वैद्यस्यादिकुलीनाः । धन्वन्तरिगोत्रे विनायकसेनः । मौद्गल्यगीत्रे चायु- दासः । काश्यपे कायुगुप्तः । वल्लालेनैषां कुलं महामध्यमकनिष्ठकुलभेदेन त्रिधा कृतम् । तत्र महाकुलीनाः पञ्च । यथा । कृष्णसेनखानः १ हरि- हरसेनखानः २ चण्डीवरदासः ३ गणपतिदासः ४ दुर्जयदासः ५ । अधुनैषां कुलस्य ह्रासवृद्धि- भङ्गा न सन्ति ॥ * ॥ अथ दक्षिणराढीयकायस्थकुलीनाः । तत्रादिशूरराजेन कान्यकुब्जदेशादानीतैर्ब्राह्मण- पञ्चकैः सह घोषवसुमित्रदत्तगुहाः पञ्चागता आदिकुलीनाः यथा । सौकालीनगोत्रे मकरन्द- घोषः १ । गौतमे दशरथवसुः २ । विश्वामित्रे कालिदासमित्रः ३ । काश्यपगोत्रे दशरथगुहः स्वाहङ्कारादवमानितो वङ्गे गतः ४ । भरद्वाज- गोत्रे पुरुषोत्तमदत्तः विनयहीनतो निष्कुलः ५ । वङ्गजकुलाचार्य्यग्रन्थे स एव मौद्गल्यगोत्रः ॥ * ॥ अथ वल्लालसेनकृतसमाजादयः ।
