कुल्माषः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुल्माषः, पुं, (कोलति इति । कुल् + क्विप् । कुल् अर्द्धस्विन्नो माषोऽस्मिन् ।) यावकः । इत्यमरः । २ । ९ । १८ ॥ (यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ “कुल्माषा वातला रूक्षा गुरवो भिन्नवर्च्चसः” ॥) वोरवधान्यम् । कुलत्थ इत्यन्ये । माषाकृतिपत्रः । काश्मीरेषु तुलसी इति ख्यातः इति सुभूतिः । इति भरतः ॥ राजमाष इत्यन्ये । इति नयना- नन्दः ॥ माषादिमिश्रमर्द्धस्विन्नभक्तम् । खिञ्चडी इति ख्यातश्च । इति लिङ्गादिसंग्रहटीकायां भरतः ॥ पाचितमाषादिरिति भीमः । इति सार- सुन्दरी ॥ अर्द्धस्विन्नगोधूमचणकादयः । (यथा, शब्दार्थचिन्तामणौ । “अर्द्धस्विन्नास्तु गोधूमा अन्येऽपि चणकादयः । कुल्माषा इति कथ्यन्ते शब्दशास्त्रेषु पण्डितैः” ॥) अस्य गुणाः । गुरुत्वम् । रूक्षत्वम् । वातकारि- त्वम् । मलभेदित्वञ्च । इति भावप्रकाशः ॥ रोग- विशेषः । इति शब्दरत्नावली ॥ वनकुलत्थः । इति रत्नमाला ॥
