कुल्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुल्यः, त्रि, (कुलस्यापत्यम् । “अपूर्ब्बपदादन्यतरस्या- मिति” । ४ । १ । १४० । इति यत् । यद्वा कुले भवः कुलाय हितः कुले साधुः वा दिगादित्वात् तत्र साधुरिवि वा यत् ।) कुलोद्भवः । कुलहितः । (यथा, भागवते ७ । ६ । १३ । “गृहान् मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान्” ॥) मान्ये पुं इति । मेदिनी ।
