सामग्री पर जाएँ

कुवलाश्वः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुवलाश्वः, पुं, (कौ पृथिव्यां वलते विचरणसमर्थो भवति यद्वा कुं भूमिं पृथिवीं वा वलते व्याप्नोतीव । वल् + अच् । कुवलः वेगगमनेन भूवलयभ्रमणक्षमः अश्वो यस्य ।) धुन्धुमारराजः । इति हेम- चन्द्रः ॥ (यथा, विष्णुपुराणे ४ । २ । १२ । “श्राव- स्तस्य वृहदश्वस्तस्यापि कुवलाश्वः योऽसावुतङ्कस्य महर्षेरपकारिणं धुन्धुनामानमसुरं वैष्णवेन तेज- साऽऽप्यायितः पुत्त्रसहस्रैरेकविंशतिभिः परिवृतो जघान धुन्धुमारसंज्ञामवाप च” ॥ अयमेव कुवल- याश्व इति नाम्नापि विश्रुतः ॥)

"https://sa.wiktionary.org/w/index.php?title=कुवलाश्वः&oldid=127825" इत्यस्माद् प्रतिप्राप्तम्