कुवेद्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुवेद्य¦ पु॰ कुगतिस॰। सुश्रुताद्युक्तक्रियोल्लङ्घनेन स्वेच्छयाविपरीताचारिणि वैद्येतल्लक्षणदोषादिकं सुश्रुते उक्तं यथा
“यस्तु केवलशास्त्रज्ञः कर्म्म स्वपरिनिष्ठितः। स मुह्य-त्यातुरम्प्राप्य प्राप्यं भीरुरिवाहवम्। यस्तु कर्म्मसुनिष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृतः। स सत्सु पूजां ना-प्नोति बधं चार्हति राजतः। उभावेतावनिपुणावसमर्थौस्वकर्म्मणि। अर्द्धवेदधरावेतावेकपक्षाविव द्विजौ। ओषध्योऽमृतकल्पास्ते शस्त्राशनिविषोपमाः। भवन्त्यज्ञै-रुपहतास्तस्मादेतौ विवर्जयेत्। छेद्यादिष्वनभिज्ञो यःस्नेहादिषु च कर्म्मसु। स निहन्ति जनं लोभात् कु-वैद्यो नृपदोषतः। यस्तूभयज्ञो मतिमान् स समर्थोऽर्थ-साधने। आहवे कर्म्म निर्वोढुं द्विचक्रः स्यन्दनो यथा”
“कुवैद्ये कितवे शठे। चाटचारणदासेषु दत्तं भवतिनिष्फलम्” स्मृतिः
