कुवेरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुवेरः, पुं, (कुत्सितं वेरं शरीरमस्य ।) तथा च वायु- मार्कण्डेयपुराणे । “कुत्सायां क्विति शब्दोऽयं शरीरं वेरमुच्यते । कुवेरः कुशरीरत्वात् नाम्ना तेनैव सोऽङ्कितः” ॥ इत्यमरटीकायां भरतः ॥ देवताविशेषः । स तु विश्रवोमुनेरिडविडाभार्य्यायां जातः । धनयक्षो- त्तरदिशां पतिश्च । इति श्रीभागवतम् ॥ त्रिच- रणोऽष्टदंष्ट्रोऽयं जातः । तत्पर्य्यायः । त्र्यम्बकसखः २ यक्षराट् ३ गुह्यकेश्वरः ४ मनुष्यधर्म्मा ५ धनदः ६ राजराजः ७ धनाधिपः ८ किन्नरेशः ९ वैश्र- वणः १० पौलस्त्यः ११ नरवाहनः १२ यक्षः १३ एकपिङ्गः १४ ऐलविलः १५ श्रीदः १६ पुण्य- जनेश्वरः १७ । इत्यमरः । १ । १ । ७१ -- ७३ । हर्य्यक्षः १८ अलकाधिपः १९ । इति जटाधरः ॥ * ॥ नन्दीवृक्षः । इति मेदिनी ॥ अर्हदुपासकविशेषः । इति हेमचन्द्रः ॥
कुवेरः, त्रि, (कुत्सितं वेरं क्षेपणं दानादिकं गति- र्वा यस्य ।) मम्दः । इति धरणी ॥ (कुत्सितं वेरं शरीरं यस्य ।) कुशरीरः । इति त्रिकाण्डशेषः ॥
