सामग्री पर जाएँ

कुशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुशः, पुं, (कु पापं श्यति नाशयति विहितराजधर्म्मा- नुष्ठानेन । कु + शो + डः । अपरा व्युत्पत्तिर्यथा यथा, रामायणे । “यस्तयोः पूर्ब्बजो जातः स कुशेर्मन्त्रसत्कृतैः । निर्म्मार्ज्जनीयस्तु तदा कुश इत्यस्य नाम तत्” ॥) रामसुतः । (यथा, रघुः १६ । ७२ । “यत् कुम्भयोनेरधिगम्य रामः कुशाय राज्येन समं दिदेश । तदस्य जैत्राभरणं विहर्त्तु- रज्ञातपातं सलिले ममज्ज” ॥) योक्त्रम् । इति मेदिनी ॥ पुराणोक्तसप्तद्वीपेषु द्वीपभेदः । स तु घृतसमुद्रेणावृतः । तत्र देव निर्म्मितोऽग्नितुल्यः कुशस्तम्बोऽस्ति । (अतः कुश- द्वीप इति संज्ञया विख्यातः ।) तदधिपः प्रिय- व्रतराजपुत्त्रो हिरण्यरेताः तद्द्वीपं विभज्य सप्त- पुत्त्रेभ्यो दत्तवान् । तेषां नामानि यथा । वसुः १ वसुदानः २ दृढरुचिः ३ नाभिगुप्तः ४ स्तुत्यव्रतः ५ विप्रनामा ६ देवनामा ७ । एषां वर्षेषु सप्त सीमा- गिरयः । यथा । बभ्रुः १ चतुःशृङ्गः २ कपिलः ३ चित्रकूटः ४ देवानीकः ५ ऊर्द्ध्वरोमा ६ द्रविणः ७ । सप्त नद्यश्च यथा । रसकुल्या १ मित्रविन्दा २ श्रुतविन्दा ३ देवगर्भा ४ घृतच्युता ५ मधुः ६ माला ७ । तत्र स्थिताः कुशलकोविदाभिमुक्तकुलकसंज्ञाः क्रमेण ब्राह्मणक्षत्त्रियवैश्यशूद्राः भगवन्तमग्नि- रूपिणं आसां नदीनां पयोभिर्यजन्ते । इति श्रीभागवतम् ॥ (विष्णुपुराणे तु एतद्द्वीपाधिपते- स्तत्पुत्त्राणां गिरीणां नदीनाञ्च नामान्तराणि दृश्यन्ते । यथा २ । ४ । ३६ -- ४४ । “ज्योतिष्मतः कुशद्वीपे सप्त पुत्त्राः शृणुष्व तान् । उद्भिदो वेणुमांश्चैव वैरथो लम्बनो धृतिः ॥ प्रभाकरोऽथ कपिलस्तन्नामा वर्षपद्धतिः । तस्मिन् वसन्ति मनुजाः सह दैवेयदानवैः ॥ तथैव देवगन्धर्व्वयक्षकिंपुरुषादयः । वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ॥ दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने ! । ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ यथोक्तकर्म्मकर्त्तृत्वात् स्वाधिकारक्षयाय ते । तत्रैव तं कुशद्वीपे ब्रह्मरूपं जनार्द्दनम् ॥ यजन्तः क्षपयन्त्युग्रमधिकारं फलप्रदम् । विद्रुमो हेमशैलश्च द्युतिमान् पुष्पवांस्तथा ॥ कुशेशयो हविश्चैव सप्तमो मन्दराचलः । वर्षाचलास्तु तत्रैते सप्तद्वीपे महामुने ! ॥ नद्यस्तु सप्त तासान्तु शृणु नामान्यनुक्रमात् । धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा ॥ विद्युदम्भा मही चान्या सर्व्वपापहरास्त्विमाः । अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः ॥ कुशद्वीपे कुशस्तम्बः सज्ञया तस्य तत् स्मृतः । तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः” ॥)

कुशः, त्रि, (कु कुस्तिते कर्म्मणि शेते अवतिष्ठते । कु + शी + कः ।) पापिष्ठः ॥ (कुत्सिते मदशय्यायां शेते इति ।) मत्तः । इति मेदिनी ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुशः [kuśḥ], a.

Wicked, vile, depraved.

Mad.

शः A kind of grass considered holy and forming an essential requisite of several religious ceremonies; पवित्रार्थे इमे कुशाः Śrāddha Mantra; कुशपूतं प्रवयास्तु विष्टरम् R.8.18, 1.49,95.

N. of the elder son of Rāma. [He was one of the twin sons of Rāma, born after Sītā had been ruthlessly abandoned in the forest; yet he was the elder of the two in point of first seeing the light of this world. He, with Lava was brought up by the sage Vālmīki, and the two boys were taught to repeat the Rāmāyaṇa, the epic of the poet. Kuśa was made by Rāma king of Kuśāvatī, and he lived there for some time after his father's death. But the presiding deity of the old capital Ayodhyā presented herself to him in his dream and besought him not to slight her. Kuśa then returned to Ayodhya; see R.16.3-42.]

A rope of Kuśa grass for connecting the yoke of a plough with the pole.

One of the great Dvīpas; Bhāg.5.1.32.

शा A plank for covering anything.

A piece of wood.

A horse's bridle. -शी A sort of ladle.

Wrought iron.

Ploughshare.

A pod of cotton.

A piece of Udumbara wood used for counting the number of Sāmans in a Stotra; औदुम्बरे स्त्रियाम् । छन्दोगस्तोत्रगणनाशङ्कासु ...... Nm. -शम् Water; as in कुशेशय q. v. ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम् Mb.3.13.18.-Comp. -अक्षः a monkey. -अग्रम् the sharp point of a blade of the Kuśa grass; hence often used in comp. in the sense of 'sharp', 'shrewd', 'penetrating' as intellect. ˚बुद्धि a. having a penetrating intellect, sharp, shrewd; (अपि) कुशाग्रबुद्धे कशली गुरुस्ते R.5.4.-अग्रीय a. penetrating, sharp; कुरु बुद्धिं कुशाग्रीयां ... ... Bk.5.15. -अङ्गुली, -रीयम् a ring of Kuśa grass worn at religious ceremonies. -अरणिः N. of Durvāsas.-आकरः the sacrificial fire. -आसनम् a seat or mat of Kuśa grass; अक्षमालापवृत्तिज्ञा कुशासनपरिग्रहा । शांभवीव तनुः कस्य न वन्द्या दौर्जनी सभा ॥ Udb. -उदकम् water in which Kuśa grass has been infused; Ms.11.212. -कण्डिकाf. a type of संस्कार of the Vedic sacrificial fire. -चीरम् a garment of Kuśa grass; (प्रगृह्य) कैकेय्याः कुशचिरे ते जानकी शुभलक्षणा Rām.2.37.1. -ध्वजः the younger brother of Janaka; तौ कुशध्वजसुते सुमध्यमे R.11.54. -मुष्टिःf. a handful of Kuśa grass कुशमुष्टिमुपादाय लवं चैव तु स द्विजः Rām.7.66.6. -स्थलम् N. of a place in the North of India; perhaps Kanoj; Ve.1. (-ली) N. of the town Dvārakā. रथं समारोप्य ययुः कुशस्थलीम् Bhāg.1. 61.41.

N. of the town उज्जयिनी.

"https://sa.wiktionary.org/w/index.php?title=कुशः&oldid=284986" इत्यस्माद् प्रतिप्राप्तम्