सामग्री पर जाएँ

कुशण्डिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुशण्डिका, स्त्री, (कुशैः कण्डिका इव । कुशकण्डिका पृषोदरात् कस्य लोपः ।) सर्व्वहोमार्थाग्निसंस्का- रकक्रिया । तत्र सर्व्वेषामाहुतियुक्तकर्म्मणां कुश- ण्डिकासंस्कृताग्निसाध्यत्वात् सैव प्रथममभिधीयते । तत्र हस्तप्रमाणं चतुरस्रं स्थण्डिलं शर्कराङ्गारास्थि- केशतुषादिरहितं पूर्ब्बोत्तरप्लवं समं वा छाया- मण्डपसहितं गोमयेनोपलिप्य स्नातः शुचिरा- चान्तः प्राङ्मुखः कुशसहितासनोपविष्टः कर्त्ता उत्तरस्यां दिश्यभ्युक्षणार्थं कुशकुसुमसहितजल- पात्रं निधाय दक्षिणं जानु भूमौ पातयित्वा उत्तराग्रकुशोपरि सव्यहस्तप्रादेशमुत्तानं वह्नि- स्थापनपर्य्यन्तं भूमौ निधाय दक्षिणहस्तानामि- काङ्गुष्ठगृहीतकुशमूलेन स्थण्डिलदक्षिणप्रान्ते द्वा- दशाङ्गुलप्रमाणां प्राङ्मुखीं रेखामुल्लिख्य रेखेयं पृथ्वीदेवताका पीतवर्णा इति ध्यायेत् । तन्मूलतः प्रभृत्येकविंशत्यङ्गुलप्रमाणां उत्तराभिमुखीं रेखा- कुशान् गृहीत्वा प्रजापतिरृषिर्व्वयो देवता दर्भ- तृणाभ्यञ्जने विनियोगः । ओ~ अक्तं रिहा णाव्यन्तु वयः । अनेनाग्रमध्यमूलानि घृतेनाभ्यनक्ति वार- त्रयं मन्त्रश्च वारत्रयमेव पठनीयः । ततस्तान् कुशानद्भिरभ्युक्ष्य प्रजापतिरृषिरनुष्टुप्छन्दो रुद्र- रूपोऽग्निर्देवता दर्भजुटिकाहोमे विनियोगः । ओ~ यः पशूनामधिपती रुद्रस्तस्तिचरो वृषा । पशूनस्माकं मा हिंसीरेतदस्तु हुतन्तव स्वाहा । अनेनाग्नौ क्षिपेत् । तत अग्ने त्वं मृडनामासीति नाम कृत्वा गन्धमाल्यवस्त्रताम्बूलैरग्निमभ्यर्च्च्य प्रजापतिरृषिर्व्विराट्छन्द इन्द्रो देवता यशस्का- मस्य यजनीयप्रयोगे विनियोगः । ओ~ पूर्णहोमं यशसे जुहोमि योऽस्मै जुहोति वरमस्मै ददाति वरं वृणे यशसा भामि लोके स्वाहा । अनेन पूर्णाहुतिं दद्यात् । ततो ब्रह्मणे पूर्णपात्रादि दक्षिणां दत्त्वा होमदक्षिणां कुर्य्यात् । ततः प्रद- क्षिणेन दक्षिणं देशं गत्वा ब्रह्मग्रन्थिं मुक्त्वा प्रत्या- वृत्यासने पुनरुपविश्य कुशकुसुमसहितजलपात्रे हस्तं निधाय महावामदेव्य ऋषिर्व्विराडगाय- त्रीच्छन्द इन्द्रो देवता शान्तिकर्म्मणि जपे विनि- योगः । ओ~ कया न श्चित्र आभुवदूती सदा वृधः सखा कया सचीष्टया वृता । ओ~ कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः दृढाचिदारुजे वसु । ओ~ अभीषुणः सखीनामविता जरितॄणां शतम्भवास्यूतये । ओ~ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्योऽरिष्ट- नेमिः स्वस्ति नो वृहस्पतिर्दधातु ॥ “एता ऋचो गीत्वा शान्तिं कुर्य्यात् । गानाशक्तौ एता एव ऋचस्त्रिरावृत्त्या पठेदिति । ततो दक्षिणां दत्त्वा अच्छिद्रावधारणं कुर्य्यात् । इति सर्व्वकर्म्मसा- धारणमुदीच्यं कर्म्म समाप्तम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुशण्डिका f. consecration of the sacred fire Jyot.

"https://sa.wiktionary.org/w/index.php?title=कुशण्डिका&oldid=496836" इत्यस्माद् प्रतिप्राप्तम्