सामग्री पर जाएँ

कुशम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुशम्, क्ली पुं, (कु पापं श्यति नाशयति । कु + शो + डः । यद्वा कौ भूमौ शेते राजते शोभते इत्यर्थः ।) स्वनामख्याततृणम् । तत्पर्य्यायः । कुथः २ दर्भः ३ पवित्रम् ४ । इत्यमरः । २ । ४ । १६६ ॥ याज्ञिकः ५ ह्रस्वगर्भः ६ वर्हिः ७ कुतुपः ८ । इति शब्दरत्नावली ॥ अपि च । “कुशो दर्भस्तथा वर्हिः सूच्यग्रो यत्र भूषणः । ततोऽन्यो दीर्घपत्रः स्यात् क्षुरपत्रस्तथैव च” ॥ तस्योत्पत्तिर्यथा, -- “वर्हिष्मती नाम पुरी सर्व्वसम्पत्समन्विता । न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥ कुशकाशास्त एवासन् शश्वद्धरितवर्च्चसः । ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे” ॥ इति श्रीभागवतम् ॥ अस्य गुणाः । “दर्भद्वयं त्रिदोषघ्नं मधुरं तुवरं हिमम् । मूत्रकृच्छ्राश्मरीतृष्णावस्तिरुक्प्रदरास्रजित्” ॥ इति भावप्रकाशः ॥ * ॥ तस्य धारणविधिस्तत् प्रतिनिधिश्च यथा, -- “पूजाकाले सर्व्वदैव कुशहस्तो भवेच्छुचिः । तर्ज्जन्या रजतं धार्य्यं स्वर्णं धार्य्यमनामया ॥ कुशकार्य्यकरं यस्मान्न तु वन्याः कुशाः कुशाः । कुशेन रहिता पूजा विफला कथिता मया ॥ नान्यस्य रजतं स्वर्णं धार्य्यं हि निजमङ्गले” ॥ इति वरदातन्त्रे १ पटलः ॥ * ॥ सधवायास्तत्स्पर्शनिषेधो यथा, -- “न स्पृशेत्तिलदर्भांश्च सधवा तु कथञ्चन” ॥ इति हलायुधकृतब्राह्मणसर्व्वस्वम् ॥ अन्यत् दर्भ- शब्दे द्रष्टव्यम् ॥

कुशम्, क्ली, (कौ पृथिव्यां भूमौ शेते । भूलग्नत्वात् तथात्वम् ।) जलम् । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=कुशम्&oldid=127847" इत्यस्माद् प्रतिप्राप्तम्