कुशलवौ
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुशलवौ, पुं, (पुष्पवतोरिव एकशक्त्या तयोरेव बोधकत्वम् द्वन्द्वसमासे तु कुशश्च लवश्च तौ कुशी- लवौ मित्रावरुणावित्यादिवज्ज्ञेयम् ।) एकयोक्त्या रामपुत्त्रौ । इति हेमचन्द्रः ॥ तयोर्नामकारणं यथा, -- “यस्तयोः प्रथमं जातः स कुशैर्म्मन्त्रसंस्कृतैः । निर्म्मार्ज्जनीयो नाम्ना हि भविता कुश इत्यसौ ॥ यश्चावरज एवासील्लवणेन समाहितः । निर्म्मार्ज्जनीयो वृद्धाभिर्नाम्ना स भविता लवः ॥ एवं कुशलवौ नाम्ना यमौ तौ सम्बभूवतुः । भगवत्कृतनामानौ सुखिनावक्षयौ च तौ” ॥ इति रामायणम् ॥
