सामग्री पर जाएँ

कुशिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुशिकः, पुं, (कुशः कुशसंज्ञको महीपालो जनकत्वे- नास्त्यस्य । कुश + ठन् ।) स्वनामख्यातनृपविशेषः । (स तु विश्वामित्रपितामहः गाधेः पिता । एत- द्विवरणन्तु महाभारते १३ । भीष्मयुधिष्ठिरसंवादे ५२ अध्यायमारभ्य द्रष्टव्यम् ॥) फालः । सर्जवृक्षः । विभीतकवृक्षः । इति हेमचन्द्रः ॥ अश्वकर्णवृक्षः । इति राजनिर्घण्टः ॥ तैलशेषः । इति विश्वः ॥ केकरे त्रि । इति शब्दमाला ॥

"https://sa.wiktionary.org/w/index.php?title=कुशिकः&oldid=127877" इत्यस्माद् प्रतिप्राप्तम्