कुष्ठः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुष्ठः, पुं, (कुष्णाति शरीरस्थशोणितं विकुरुते इति । निष्कर्षार्थकस्य कुष्धातोरत्र विकारार्थत्वं बोध्य- ते धातूनामनेकार्थत्वात् । कुष् निष्कर्षे + “हनि- कुषीति” । उणां २ । २ । इति क्थन् ।) स्वनामख्यातरोगः । तस्य निदानं पूर्ब्बलिखितम् । औषधं यथा । “सर्व्वकुष्टेषु वमनं रेचनं रक्तमोक्षणम् । वचावासापटोलानां निम्बस्य फलिनीत्वचः ॥ कषायो मधुना पीतो वातहृन्मदनान्वितः । विरेचनं प्रयोक्तव्यं त्रिवृद्दन्तीफलत्रिकैः ॥ मनःशिला मरीचानि तैलपाकं पयो हरेत् । सर्व्वकुष्ठानुलेपोऽयं शिवा पञ्चगुडोदनम् ॥ करञ्जैडगजौ कुष्ठं गोमूत्रेण प्रलेपतः । करवीरोद्वर्त्तनञ्च तैलाक्तस्य तु कुष्ठहृत् ॥ हरिद्रामलयं रास्ना गुडूच्येडगजस्तथा । आरग्वधः करञ्जश्च लेपः कुष्ठहरः परः ॥ मनःशिला विडङ्गानि वाकुची सर्षपस्तथा । करञ्जो मूत्रपिष्टोऽयं लेपः कुष्ठहरोऽर्कवत् ॥ विडङ्गैडगजाकुष्ठनिशासिन्धूत्थसर्षपैः । मूत्राम्बुपिष्टो लेपोऽयं दद्रुकुष्ठविनाशनः ॥ प्रपुन्नाटकवीजानि धात्री सर्ज्जरसः स्नूही । सौवीरपिष्टं दद्रू णामेतदुद्वर्त्तनं परम् ॥ आरग्वधस्य पत्राणि आरनालेन पेषयेत् । दद्रुकिट्टिमकुष्ठानि हन्ति सिध्मानमेव च ॥ उष्णा पीता वाकुची च कुष्ठजित् क्षीरभोजिनः । तिलाज्यत्रिफलाक्षौद्रव्योषभल्लातशर्कराः ॥ वृष्यः सप्तसमो मेध्यः कुष्ठहा कामचारिणः । विडङ्गत्रिफलाकृष्णाचूर्णं लीढं समाक्षिकम् ॥ हन्ति कुष्ठं कृमीन्मेहनाडीव्रणभगन्दरान् । यः खादेदभयारिष्टामलकानि तथा निशा ॥ स जयेत् सर्व्वकुष्ठानि मासादूर्द्ध्वं न संशयः । दह्यमानाच्युतः कुम्भे मूलगे खदिराङ्कुरः ॥ साक्षधात्रीरसक्षौद्रं हन्यात् कुष्ठं रसायनम् । धात्रीखदिरयोः क्वाथं पीत्वावल्गुजसंयुतम् ॥ शङ्खेन्दुधवलं श्वित्रं हन्ति तूर्णं न संशयः । पीत्वा भल्लातकं तैलं मांसव्याधिं जयेन्नरः ॥ सेवितं खादिरं वारि पानाद्यैः कुष्ठजिद्भवेत् । वासा गुडूची त्रिफला पटोलञ्च करञ्जकम् ॥ निम्बासनं कृष्णवेत्रं क्वाथकल्केन यद्युतम् । वज्रकं तद्धरेत् कुष्ठं शतं वर्षाणि जीवति ॥ स्वरसेन च दूर्व्वायाः पचेत्तैलं चतुर्गुणम् । कच्छुर्विचर्च्चिका पामा अभ्यङ्गादेव नश्यति ॥ द्रुमत्वगर्ककुष्ठानि लवणानि च मूत्रकम् । गण्डीरिका चित्रकैस्तैस्तैलं कुष्ठव्रणादिनुत्” ॥ इति गारुडे १७५ अध्यायः ॥ “कुष्ठेन्द्रयवसिद्धार्थनिशा दूर्व्वा च कुष्ठजिंत्” ॥ इति तत्रैव १७५ अध्यायः ॥ पीनसञ्च प्रतिश्यायं प्लीहानमुदरं तथा ॥ एतान् रोगान्निहन्त्याशु भास्करस्तिमिरं यथा” ॥ अमृतागुग्गुलुः । अयं वातरक्ते प्रशस्तः ॥ ५५ ॥ “निम्बामृतावृषपटोलनिदिग्धिकानां भागान् पृथग्दशपलान् विपचेद्घटेऽपाम् । अष्टांशशेषितरसेन सुनिश्चितेन प्रस्थं घृतस्य विपचेत् पिचुभागकल्कैः ॥ पाठाविडङ्गसुरदारुगजोपकुल्या- द्विक्षारनागरनिशामिषिचव्यकुष्ठैः । तेजोवतीमरिचवत्सकदीप्यकाग्नि- रोहिण्यरुष्करवचाकणमूलयुक्तैः ॥ मञ्जिष्ठयातिविषया वरया यमान्या संशुद्धगुग्गुलुपलैरपि पञ्चसंख्यैः । तत् सेवितं विधमति प्रबलं समीरं सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक् ॥ नाडीव्रणार्व्वुदभगन्दरगण्डमाला- जत्रूर्द्ध्वसर्व्वगदगुल्मगुदोत्थमेहान् । यक्ष्मारुचिश्वसनपीनसकासशोष- हृत् पाण्डुरोगगलविद्रधिवातरक्तम्” ॥ इति पञ्चतिक्तघृतगुग्गुलुः ॥ ५६ ॥ * ॥ “श्वेतकरवीरमूलं विषांशकं साधितं गोमूत्रे ।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुष्ठः [kuṣṭhḥ] ष्ठम् [ṣṭham], ष्ठम् [Uṇ.2.2]
Leprosy (of which there are 18 varieties); गलत्कुष्ठाभिभूताय च Bh.1.9.
A sort of poison.
A kind of tree; Costus specious, see कोष्ठ; Rām.2.94.24.
(-m.) cavity of the loin. -ष्ठा The mouth or opening of a basket.
Comp. अरिः sulphur.
N. of several plants (Mar. भोवरी, रुई, कडू पडवळ इ.)
