कुष्ठम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुष्ठम्, क्ली, (कुष्णाति रोगम् । कुष् + “हनि कुषीति” । उणां २ । २ । इति क्थन् ।) विषभेदः । इति हेमचन्द्रः ॥ औषधविशेषः । कुड् इति भाषा । तत्पर्य्यायः । व्याधिः २ पारिभव्यम् ३ वाप्यम् ४ पाकलम् ५ उत्पलम् ६ । इत्यमरः । २ । ४ । १२६ ॥ आप्यम् ७ । इति तट्टीका ॥ जरणम् ८ । इति रत्नमाला ॥ रुजा ९ गदः १० आमयः ११ पारिभद्रकम् १२ रामम् १३ वाणीरजम् १४ पावनम् १५ कुत्सितम् १६ पद्मकम् १७ गदा- ह्वम् १८ गदाह्वयम् १९ कौवेरम् २० भासु- रम् २१ । इति शब्दरत्नावली ॥ काकलम् २२ नीरुजम् २३ । इति जटाधरः ॥ “कुष्ठं रोगाह्वयं वाप्यं पारिभव्यं तथोत्पलम् । कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु । हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान्” ॥ * ॥ अथ कुष्ठभेदपुष्करमूलम् । “उक्तं पुष्करमूलन्तु पुष्करं पौष्करञ्च तत् । पद्मपत्रञ्च काश्मीरं कुष्ठभेदमिदं जगुः ॥ पौष्करं कटुकं तिक्तमुष्णं वातकफज्वरान् । हन्तिशोथारुचिश्वासान् विशेषात् पार्श्वशूलनुत्” ॥ इति भावप्रकाशः ॥ अस्य गुणाः । कटुत्वम् । उष्णत्वम् । तिक्तत्वम् । कफवायुकुष्ठरोगविसर्प- विषकण्डूखर्ज्जूदद्रुनाशित्वम् । कान्तिकारित्वञ्च । इति राजनिर्घण्टः ॥ श्वासकासज्ज्वरहिक्काना- शित्वम् । इति राजवल्लभः ॥ * ॥ स्वनामख्यातरोगः । कुट् इति भाषा । तत्पर्य्यायः । ज्ञेया पाण्योः कच्छुरुग्रास्फिचोश्च ॥ ८ ॥ स्फोटाः श्यावारुणा भासा विष्फोटाः स्युस्तनुत्वचः ॥ ९ ॥ रक्तं श्यावं सदाहार्त्ति शतारुः स्याद्बहुव्रणम् ॥ १० ॥ सकण्डुपिडका श्यावा बहुस्रावा विचर्च्चिका” ॥ ११ ॥ इति माधवकरः ॥
