कुसुम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुमम्, क्ली, (“कुसेरुम्भोमेदेताः” । उणां ४ । १०६ । इति उमः । निपातनात् गुणाभावः ।) पुष्पम् । (यथा, ऋतुसंहारे वसन्तवर्णने ४ । “वापीजलानां मणिमेखलानां शशाङ्कभासां प्रमदाजनानां । चूतद्रुमाणां कुसुमानतानां ददाति सौरभ्यमयं वसन्तः” ॥ फलकुसुमविशेषाणां द्रव्यान्तरसुलभत्वादिसूचकत्वं दर्शितं यथा वृहत्संहितायां २९ अध्याये । “फलकुसुमसम्प्रवृद्धिं वनस्पतीनां विलोक्य विज्ञे- यम् । सुलभत्वं द्रव्याणां निष्पत्तिश्चापि शस्यानाम्” ॥ केन कस्य वृद्धिर्ज्ञेया तदाह । “शालेन कलमशालीरक्ताशोकेन रक्तशालिश्च । पाण्डूकः क्षीरिकया नीलाशोकेन मसूरकः ॥ न्यग्रोधेन तु यवकस्तिन्दुकवृद्ध्या च षष्टिको भवति । अश्वत्थेन ज्ञेया निष्पत्तिः सर्व्वशस्यानाम् ॥ जम्बूमिस्तिलमाषाः शिरीषवृद्ध्या च कङ्गु निष्पत्तिः । गोधूमाश्च मधुकैर्यववृद्धिः सप्तपर्णेन ॥ अतिमुक्तककुन्दाभ्यां कर्पासं सर्षपान् वदेदसनैः । बदरीभिश्च कुलत्थांश्चिरविल्वेनादिशेन्मुद्गान् ॥ अतसीवेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः । तिलकेन शङ्खमौक्तिकरजतान्यथ चेङ्गुदेन शणः ॥ करिणश्च हस्तिकर्णै रादेश्या वाजिनोऽश्वकर्णेन । गावश्च पाटलाभिः कदलीभिरजाविकं भवति ॥ चम्पककुसुमैः कनकं विद्रुमसम्पच्च बन्धजीवेन । कुरुवकवृद्ध्या वज्रं वैदूर्य्यं नन्दिकावर्त्तैः ॥ विद्याच्च सिन्धुवारेण मौक्तिकं कुङ्कुमं कुसुम्भेन । रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ॥ श्रेष्ठी सुवर्णपुष्पैः पद्मैर्विप्राः पुरोहिताः कुमुदैः । सौगन्धिकेन बलपतिरर्केण हिरण्यपरिवृद्धिः ॥ आम्रैः क्षेमं भल्लातकैर्भयं पीलुभिस्तथारोग्यम् । खदिरशमीभ्यां दुर्भिक्षमर्ज्जुनैः शोभना वृष्टिः ॥ पिचुमर्द्दनाग कुसुमैः सुभिक्षमथमारुतः कपित्थेन । निचुलेनावृष्टिमयं व्याधिभयं भवति कुटजेन ॥ दूर्व्वाकुशकुमुमाभ्यां भिक्षुर्वह्निश्च कोविदारेण । श्यामालताभिवृद्ध्या बन्धक्यो वृद्धिमायान्ति” ॥) फलम् । स्त्रीरजः । (यथा, ज्योतिषशास्त्रे । “यदा नार्य्याः पितुर्गेहे कुसुमस्तनसम्भवः” ॥) नेत्ररोगविशेषः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुम नपुं।

पुष्पम्

समानार्थक:सुमनस्,पुष्प,प्रसून,कुसुम,सुम,पीलु,प्रसव

2।4।17।1।4

स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्. मकरन्दः पुष्परसः परागः सुमनोरजः॥

अवयव : पुष्पमधुः,पुष्परेणुः

 : अविकसितपुष्पम्, विकासोन्मुखपुष्पम्, ईषद्विकासोन्मुखपुष्पम्, पाटलकुसुमः, जपा, तिलपुष्पम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुम¦ न॰ कुस--उम नि॰ गुणाभावः।

१ पुष्पे,
“कुसुमसन्त-तिसन्ततसङ्गिभिः” माघः।
“कुसुमायोजितकार्मुकोमधुः” कुमा॰।
“विपिनविहारे कुसुमविचित्रा” छन्दोम॰।

२ फले,

३ स्त्वीरजसि,
“यदा नार्य्याः पितुर्गेहे कुसुमस्तनसम्भवः” ज्यो॰

४ नेत्ररोगभेदे च मेदिनिः। पञ्चमात्रप्रस्तावे। ऽ॥ षष्ठे

५ प्रभेदे। फलकुसुमविशेषाणां द्रव्यान्तरसुलभत्वादि-सूचकत्वं वृ॰ स॰

२९ अ॰ दर्शितं यथा
“फलकुसुमसम्प्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम्। सुलभत्वं द्रव्याणां निष्पत्तिश्चापि शस्वानाम्। शालेनकलमशाती रक्ताशोकेन रक्तशालिश्च। पाण्डूकः क्षीरि-कथा नीलाशोकेन मसूरकः। न्यग्रोधेन तु यवकस्ति-न्दुकवृद्ध्या च षष्टिको भवति। अश्वत्थेन ज्ञेया निषा-त्तिः सर्वशव्यानाम्। जम्बूभिस्तिलमाषाः शिरीषवृद्ध्या चकङ्गुनिष्पत्तिः। गोधूमाश्च मधुकैर्यववृद्धिः सप्तपर्णेन। अनिमुक्तककुन्दाभ्यां कर्पासं सर्पपात् वदेदसनैः। वदरा-भिश्च कुलत्यांश्चिरविल्वेनादिशेन्भुद्गान्। अतसी वेतसपुष्पैःपलाशकुसुमैश्च कोद्रवा ज्ञेयाः। तिलकेन शङ्खमौक्तिक-रजनात्यय चेङ्गुदेन शणः। करिणश्च हस्तिकर्णैरादेश्वावाजिनोऽश्वकर्णेन। गावश्च पाटलाभिः कदलीभि-रजाविकं भवति। चम्पफकुसुमैः कनकं विद्रुमसम्पच्चबन्धुजीवेन। कुरुवकवृद्ध्या वज्रं वैदूर्य्यं नन्दिकावर्तैः। विद्याच्च सिन्धुवारेण मौक्तिकं कुङ्कुमं कुसुम्भेन। रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः। श्रेष्ठी सुवर्ण-पूर्प्पः पद्मैर्विप्राः पुरोहिताः कुमुदैःः। सौगन्धिकेनबलपतिरर्केण हिरण्यपरिवृद्धिः। आम्रैः क्षेमं भल्लातकै-र्भयं पीलु भिस्तथारोग्यम्। खदिरशमीभ्यां दुर्भिक्षमर्जुनैः[Page2160-b+ 38] शोभना वृष्टिः। पिचुमर्द्दनागकुसुमैः सुभिक्षमथ मारुतःकपित्थेन। निचु{??} वृष्टिभयं व्याधिभयं भवति कुट-जेन। दूर्वाकुशकुसुमाभ्यां भिक्षुर्वह्निश्च कोविदारेण। श्यामालताभिवृद्ध्या बन्धक्यो वृद्धिमायान्ति”। कुसुमविशेषप्रकाशने दोहदभेदः।
“सचूपुररवेण स्त्री-चरणेनाभिताडनम्। दोहदं यदशोकस्य ततः पुष्पो-द्गमोभवेत्। बकुलो सुखशीधुसिक्तः। आलोकितःकुरुवकः कुरुते विकाशमालोडितस्तिलक उत्कलिको वि-भाति” कुमा॰ टी॰ मल्लि॰। तदस्य संजातं तार॰ इतच्। कुसुमित संजातकुसुमे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुम¦ n. (-मं)
1. A flower in general.
2. Fruit.
3. The menstrual dis- charge.
4. Ophthalmia, disease of the eyes. E. कुस् to shine, उम Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुमम् [kusumam], 1 A flower; उदेति पूर्वं कुसुमं ततः फलम् Ś.7.3.

Menstrual discharge.

A fruit.

A disease of the eyes. -मः A form of fire. -Comp. -अञ्जनम् the calx of brass used as a collyrium. -अञ्जलिः a handful of flowers. -अधिपः, -अधिराजः m. the Champaka tree (bearing yellow fragrant flowers). -अवचायः gathering flowers; अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः K. P.3. -अवतंसकम् a chaplet.

अस्त्रः, आयुधः, इषुः, बाणः, शरः a flowery arrow.

N. of the god of love; अभिनवः कुसुमेषुव्यापारः Māl. 1 (where the word may also be read as कुसुमेषु व्यापारः); तस्मै नमो भगवते कुसुमायुधाय Bh.1.1; तव प्रसादात् कुसुमायुधो$पि Ku.; Ṛs.6.34; Ch. P.19.24; R.7.61; Śi.8.7, so कुसुमशरबाणभावेन Gīt.1.

आकरः a garden.

a nosegay.

vernal season; ऋतूनां कुसुमाकरः Bg.1.35; so Bv.1.48. -आत्मकम् saffron.

आपीडः a garland or chaplet of flowers.

the god of love; कुसुमापीडव्याजेन Māl.1 (where it has both senses).

आसवम् honey.

a kind of spirituous liquor (prepared from flowers). -उज्ज्वल a. brilliant with blossoms. -कार्मुकः, -चापः, -धन्वन् m. epithets of the god of love; कुसुमचापमतेजयदंशुभिः R.9.39; Ṛs.6.27. कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहः । Śi.6.16. -चितa. heaped with flowers. पीडाभाजः कुसुमचिताः साशंसम् Ki.-द्रुमः a tree full of blossom; आधूय शाखाः कुसुमद्रुमाणाम् R.16.36. -पुरम् N. of the town of Pāṭaliputra; कुसुमपुराभियोगं प्रत्यनुदासीनो राक्षसः Mu.2; पितृवधपरित्रासादप- क्रान्ते कुसुमपुरात्कुमारे मलयकेतौ ibid. -प्रवृत्तिः, -प्रसूतिः f. appearance of flowers; आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्यु- त्सवः Ś.4.8. -लता a creeper in blossom. -शयनम् a bed of flowers; V.3.1. -स्तबकः a nosegay, boquet; कुसुमस्तबकस्येव द्वे गती स्तो मनस्विनाम् Bh.2.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुम n. (fr. कुस्Un2. ; g. अर्धर्चा-दि) , a flower , blossom Mn. xi , 70 R. etc. ( ifc. f( आ). ) Ma1lav. and Ratna1v.

कुसुम n. N. of the shorter sections of देवेश्वर's कवि-कल्प-लता(the longer chapters being called स्तबक)

कुसुम n. fruit L.

कुसुम n. the menstrual discharge L.

कुसुम n. a particular disease of the eyes L.

कुसुम m. a form of fire Hariv. 10465

कुसुम m. N. of an attendant of the sixth अर्हत्of the present अवसर्पिणीL.

कुसुम m. N. of a prince Buddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वानर chief. Br. III. 7. २३१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUSUMA : One of the five attendants given to Skanda- deva by Dhātā. Kunda, Kusuma, Kumuda, Ḍambara and Āḍambara were the five attendants. (Śalya Parva, Chapter 45, Verse 39).


_______________________________
*5th word in left half of page 448 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुसुम&oldid=496900" इत्यस्माद् प्रतिप्राप्तम्