कुसुम्भम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुसुम्भम्, क्ली, (कौ पृथिव्यां सुम्भति शोभते दीप्तिं प्राप्नोतीत्यर्थः । कु + सुभि + अच् इदित्वात् नुम् ।) स्वर्णम् । इति मेदिनी ॥ पुष्पंविशेषः । कुसुमफुल इति भाषा ॥ (यथा, ऋतुसंहारे वसन्तवर्णने ६ । “कुसुम्भरागारुणितैर्दूकूलै र्नितम्बविम्बानि विलासिनीनाम् । तन्वंशुकैः कुङ्कुमरागगौरैः अलङ्क्रियन्ते स्तनमण्डलानि” ॥) तत्पर्य्यायः । कमलोत्तमम् २ वह्निशिखम् ३ महा- रजनम् ४ । इत्यमरः । २ । ९ । १०६ ॥ पावकम् ५ पीतम् ६ पर्द्मोत्तरम् ७ रक्तम् ८ लोहितम् ९ वस्त्ररञ्जनम् १० अग्निशिखम् ११ । अस्य शाक- गुणाः । मधुरत्वम् । कटुत्वम् । उष्णत्वम् । विण्मूत्र- दोषमदनाशित्वम् । दृष्टिप्रसादनत्वम् । रुचि- प्रदत्वम् । अग्निदीप्तिकारित्वञ्च । इति राज- निर्घण्टः ॥ रूक्षत्वम् । कफवायुनाशित्वम् । पित्त- कारित्वञ्च । तत्तैलगुणाः । कटुत्वम् । उष्णत्वम् । त्रिदोषकारित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥ कृमियक्ष्ममलनाशित्वम् । तेजोबलकारित्वञ्च । घर्षणेनास्य गुणाः । त्रिदोषकारित्वम् । पुष्टिबल- क्षयकण्डूकारित्वञ्च । इति राजनिर्घण्टः ॥ (कुसु- म्भशाकभक्षणे निषेधमाह तिथितत्त्वधृतोशनो- वचने यथा, -- “कुसुम्भं ललिताशाकं वृन्ताकं पूतिकां तथा । भक्षयन् पतितस्तु स्यादपि वेदान्तगो द्विजः” ॥)
