कुहकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुहकम्, क्ली, (कुह + “बहुलमन्यत्रापि” । उणां २ । ३७ इति क्वुब् ।) माया । (यथा, भागवते । १ । १ । १ । “जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्व- राट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो मृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि” ॥) तत्पर्य्यायः । इन्द्रजालम् २ जा- लम् ३ कुसृतिः ४ । तद्युक्ते त्रि । तत्पर्य्यायः । धूर्त्तः २ वञ्चकः ३ व्यंसकः ४ दाण्डाजिनिकः ५ मायी ६ जालिकः ७ । इति हेमचन्द्रः ॥ दाम्भिकः । इत्युणादिकोषः । (सर्पविशेषः । यथा, विष्णु- पुराणे १ । १७ । ३८ ॥ “इत्युक्तास्तेन ते सर्पाः कुहकास्तक्षकान्धकाः । अदशन्त समस्तेषु गात्रेष्वतिविषोल्वणाः” ॥)
