सामग्री पर जाएँ

कुहूः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुहूः, स्त्री, (कुह + बाहुलकात् कूप्रत्ययः ।) नष्टेन्दु- कलामावास्य । इत्यमरः । १ । ४ । ९ ॥ (यथा, श्रुतौ । “द्वे ह वा अमावास्या या पूर्ब्बामावास्या सिनीवाली योत्तरा सा कुहूरिति” ॥ व्यक्तमाह कालमाधवीये व्यासः । “दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूर्मता” ॥ मतान्तरे तु । “तिथिक्षये सिनीवाली नष्टचन्द्रा कुहूर्मता । बाहुल्येपि कुहूर्ज्ञेया वेदवेदान्तवेदिभिः” ॥ तत्र श्राद्धाधिकारिभेदमाह । यथा, जावालिः । “अपराह्णद्वयाव्यापी यदि दर्शस्तिथिक्षये । आहिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्मता” ॥ आदिशब्दात् स्त्रीशूद्रयोरपि ग्रहणं यथाह लोगाक्षिः । “सिनीवाली द्विजैः कार्य्या साग्निकैः पितृकर्म्मणि । स्त्रीभिः शूद्रैः कुहूः कार्य्या तथा चानग्निकैर्द्विजैः” ॥ तदधिष्ठत्री देवपत्नी । यथा, निरुक्ते । “सिनीवाली कुहूरिति देवपत्न्याविति” ॥ सा च अङ्गिरसः सुता । यथाह भागवते ४ । १ । २९ । “श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः । सिनीवाली कुहूराका चतुर्थ्यनुमतिस्तथा” ॥) कोकिलालापः । इति मेदिनी ॥ (यथा, आर्य्या- सप्तशती ६३० । “केनाश्रावि पिकानां कुहूं विहायेतरः शब्दः” ॥)

"https://sa.wiktionary.org/w/index.php?title=कुहूः&oldid=128009" इत्यस्माद् प्रतिप्राप्तम्