कूटः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूटः, पुं, (कूटयति दग्धीकरोति शापप्रभावेन सा- पराधान् इति । कूट दाहे + णिच् + अच् ।) अगस्त्यमुनिः । इति शब्दरत्नावली ॥
कूटः, पुं, स्त्री, (कूट्यते दातुं न शक्यते स्थावर त्वादिति । कूट अप्रदाने + कर्म्मणि घञ् ।) गृहम् । इति शब्दरत्नावली ॥
कूटः, पुं, क्ली, (कूट् + घञ् ।) निश्चलः । राशिः । (यथा, हेः रामायणे । १ । १४ । १५ । “अन्नकूटाश्च दृश्यन्ते बहवः पर्व्वतोपमाः” ॥) लौहमुद्गरः ॥ (यथा, भागवते । ४ । २५ । ८ । “एते त्वां संप्रतीक्षन्ते स्मरन्तो वैशसं तव । संपरेतमयःकूटैश्छिन्दन्त्युत्थितमन्यवः” ॥) माया । (यथा, महाभारते वनपर्व्वणि । “नैव धर्म्मेण तद्राज्यं नार्ज्जवेन न चौजसा । अक्षकूटमधिष्टाय हृतं दुर्य्योधनेन वै” ॥) पर्व्वतशृङ्गम् । (यथा, महाभारते आनुशासनिके । “अद्रीणामिव कूटानि धातुरक्तानि शेरते” ॥) तुच्छः । सीरावयवः । यन्त्रम् । फा~द् इति भाषा । (यथा, रामायणे । “वागुराभिश्च पाशैश्च कूटैश्च विविधैस्तथा” ॥) अनृतम् । इति मेदिनी ॥ भग्नशृङ्गषण्डः । इति हेमचन्द्रः ॥ कैतवम् । इत्यमरः । ३ । ३ । ३६ ॥ (यथा, भागवते । ६ । ५ । १० । “वाचः कूटन्तु देवर्षेः स्वयं विममृशुर्घिया” ॥ तद्वति त्रि । यथा, मनुः । ७ । ९० । “न कूटैरायुधैर्हन्यात् युध्यमानो रणे रिपून्” ॥ मिथ्याभूते त्रि । यथा, याज्ञवल्क्यः । “द्विगुणा वान्यथा ब्रूयुः कूटाःस्युः पूर्ब्बसाक्षिणः” ॥ पुरद्वारम् । यथा, महाभारते । ४ । ५ । १४ । “इयं कूटे मनुष्येन्द्र ! गहने महती शमी । भीमशाखा दुरारोहा श्मशानस्य समीपतः” ॥ अत्र कूटशब्दस्तु टीकाकृन्मतभेदेन अर्थान्तरे- ऽपि वर्त्तते । अग्रभागमात्रम् । यथा, रामायणे । “किरीटकूटैर्ज्वलितं शृङ्गारं दीप्तकुण्डलम्” ॥ भागवते च । ३ । १३ । २९ । “सवज्रकूटाङ्गनिपातवेग- विशीर्णकुक्षिः स्तनयन्नुदन्वान् । उत्सृष्टदीर्घोर्म्मिभुजैरिवार्त्त- श्चुक्रोश यज्ञेश्वर ! पाहि मेति” ॥)
