कूटशाल्मलिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूटशाल्मलिः, पुं, (कूटः शाल्मलिः ।) शाल्मलिविशेषः । काशिमाला इति ख्यातः । कुत्सितशाल्मलिः अनृतशाल्मलिर्वा । इत्यन्ये । इति भरतः ॥ तत्प- र्य्यायः । रोचनः २ । इत्यमरः । २ । ४ । ४७ ॥ (क्वचित् स्त्रीलिङ्गे ऽपि दृश्यते । कूटशाल्मलिरिव इति व्युत्पत्त्या यमस्य गदायाः गौणी संज्ञा । यथा, रघौ १२ । ९५ । “अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे । हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत्” ॥ नरकस्थकण्टकाचितलोहशाल्मलिवृक्षविशेषः । स च दुरारोहः । यथा, महाभारते १८ । ३ । ४ । “नादृश्यन्त च तास्तत्र यातनाः पापकर्म्मिणाम् । नदी वैतरणी चैव कूटशाल्मलिना सह” ॥) राजनिर्घण्टोक्तगुणपर्य्यायौ रोहितकशब्दे द्रष्टव्यौ ॥
