सामग्री पर जाएँ

कूटसंक्रान्तिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूटसंक्रान्तिः, स्त्री, अर्द्धरात्रातीते सूर्य्यस्य राश्यन्त- रगभनम् । यथा, -- “संक्रान्तिर्द्विविधा यत्र पूर्ब्बं तत्र परित्यजेत् । कर्त्तव्यं कूटसंक्रान्त्यां स्नानदानतपोव्रतम् ॥ अर्द्धरात्रव्यतीते तु यदा संक्रमते रविः । सा ज्ञेया कूटसंक्रान्तिर्मुनिभिः परिकीर्त्तिता” ॥ इति विद्यानिधिकृतज्योतिःसागरसारधृतं वच- नम् ॥ * ॥ अपि च । “अर्द्धरात्रे व्यतीते तु संक्रान्तिर्यदहर्भवेत् । पूर्ब्बे व्रतादिकं कुर्य्यात् परेद्युः स्नानदानयोः ॥ इति भीमपराक्रमीयम् ॥ स्नानदानयोरित्यत्र सप्तमीनिर्द्देशात् परदिवसीयस्रानदाननिमित्तकं पूर्ब्बदिने उपवाससंयमनरूपव्रतादिकं कुर्य्यादि- त्यर्थः । इति तिथ्यादितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=कूटसंक्रान्तिः&oldid=128048" इत्यस्माद् प्रतिप्राप्तम्