सामग्री पर जाएँ

कूटसाक्षी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूटसाक्षी, [न्] त्रि, (कूटः मायावी मिथ्यावादी कपटीत्यर्थः साक्षी ।) मिथ्यासाक्षी इति व्यव- हारतत्त्वम् ॥ (याज्ञवल्क्ये कूटसाक्षिलक्षणम् । यथा, -- “द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्ब्बसाक्षिणः” ॥ ते तु गुरुदण्डार्हाः । अकृतप्रायश्चित्ताः रौरवाख्य- नरकं व्रजेयुः ॥ यो हि जानन्नपि साक्ष्यं न ददाति स कूटसाक्षितुल्यः । तथा च तत्रैव । “न ददाति तु यः साक्ष्यं जानन्नपि नराधमः । स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि” ॥)

"https://sa.wiktionary.org/w/index.php?title=कूटसाक्षी&oldid=496963" इत्यस्माद् प्रतिप्राप्तम्