सामग्री पर जाएँ

कूटस्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूटस्थः, त्रि, (कूटे मायायां तिष्ठतीति । यद्वा, कूट- वत् निर्व्विकारेण निश्चलः सन् तिष्ठतीति । कूट् + स्था + कः ।) एकरूपतया यः कालव्यापी सः । इत्य- मरः ॥ (परमात्मा । यथा, पञ्चदश्यां ६ । २२-२७ । “अधिष्ठानतया देहद्वयावच्छिन्नचेतनः । कूटवन्निर्व्विकारेण स्थितः कूटस्थ उच्यते ॥ कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिविम्बकः । प्राणानां धारणाज्जीवः संसारेण स युज्यते ॥ जलव्योम्ना घटाकाशो यथा सर्व्वस्तिरोहितः । तथा जीवेन कूटस्थः सोऽन्योन्याध्यास उच्यते ॥ अयं जीवो न कूटस्थं विविनक्ति कदाचन । अनादिरविवेकोऽयं मूलाविद्येति गम्यताम् ॥ विक्षेपावृतिरूपाभ्यां द्विधा ऽविद्या प्रकल्पिता । न भाति नास्ति कूटस्थ इत्यापादनमावृतिः ॥ अज्ञानी विदुषा पृष्टः कूटस्थं न प्रबुध्यते । न भाति नास्ति कूटस्थ इति बुद्ध्वा वदत्यपि” ॥ कूटस्थचैतन्यस्य अविद्याध्यस्ततयैव जीवत्वं नतु स्वरूपतः नितरां तस्मादपि निरध्यस्तत्वात् नि- र्म्मलः सच्चिदानन्दस्वरूपावस्थः पुरुषोत्तमः पर- मात्मेत्युच्यते । यथा, गीतायां १५ । १६-१७ । “द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्व्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य विभर्त्त्यव्यय ईश्वरः” ॥) एकेनैव स्वभावेन निरवधिकालस्य व्यापको य आ- काशादिः । इति भरतः ॥ (कूटे भयावहे तिष्ठति यः । स्था + कः ।) व्यालनखः । इति राजनिर्घण्टः ॥ (व्याघ्रनख इति भाषा ॥)

कूटस्थम्, क्ली, (कूटस्थ इव प्रकाशते यत् । अर्शआदे- रच् ।) व्याघ्रनखाख्यगन्धद्रव्यम् । इति जटाधरः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूटस्थ वि।

एकरूपतया_कालव्यापी

समानार्थक:कूटस्थ

3।1।73।2।1

स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः। कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूटस्थ¦ त्रि॰ कूटोऽयोधनवत् निश्चलं यथा तथा वा तिष्ठतिस्था--क।

१ एकरूपतया सर्वकालस्थायिनि परिणामादिशून्ये
“अधिष्ठानतया देहद्वयावच्छिन्नचेतनः। कूटवन्निर्विकार-त्वात् स्थितः कूटस्थैष्यते” इत्युक्तलक्षणे

२ परमात्मनि पु॰।

३ व्याघ्रनखाख्ये गन्धद्रव्ये न॰ राजनि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूटस्थ¦ mfn. (-स्थः-स्था-स्थं) Uniform, perpetually and universally the same as spirit, elementary matter, æther &c. n. (-स्थं)
1. The soul
2. A sort of perfume, a species of dried shell fish, commonly Nak'hi. E. कूट fixed, and स्थ what remains.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूटस्थ/ कूट--स्थ mfn. standing at the top , keeping the highest position Comm. on S3Br. i , 4 , 2 , 4

कूटस्थ/ कूट--स्थ mfn. standing in a multitude of or in the midst of (in comp. ) BhP. i , 11 , 36

कूटस्थ/ कूट--स्थ mfn. (in phil. ) immovable , uniform , unchangeable (as the soul , spirit , space , ether , sound , etc. ) Up. Pat. Bhag. vi , xii BhP. iii , etc. ( पालि. कूटट्ठ, Samannaphala-sutta)

कूटस्थ/ कूट--स्थ mn. a kind of perfume (a species of dried shell-fish , commonly Nathi) L.

कूटस्थ/ कूट--स्थ n. the soul W.

"https://sa.wiktionary.org/w/index.php?title=कूटस्थ&oldid=496964" इत्यस्माद् प्रतिप्राप्तम्