कूप

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अकारान्तम् पुल्लिम्गम्

जलशयम्

अनुवादाः[सम्पाद्यताम्]

आम्गलम्-kindness sympathy pity मलयालम्-കരുണ,ദയ അനുകമ്പ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूप, त् क दौर्ब्बल्ये । (अदन्तचुरां--परं--अकं--सेट् ।) अयं षष्ठस्वरी । इति त्रिलोचनः ॥ सप्तमखरी । इति कविकल्पद्रुमटीकायां दुर्गादासः ॥

कूपः, पुं, (कु ईषत् आपी यत्र । “ऋक्पूरित्यः” । ५ । ४ । ७४ । ऊदनोरित्यत्र दीर्घनिर्द्देशादन्यत्रा- प्यूदिति वा । यद्वा कुतन्ति मण्डूकाः अत्र । “कुपु भ्याञ्च” । उणां ३ । २७ इति पो दीर्घश्च ।) स्वना- मख्यातो जलाधारः ॥ कूया इति पात्कूया इति च भाषा । तत्पर्य्यायः । अन्धुः २ प्रहिः ३ उद- पानम् ४ । इत्यमरः । १ । १० । २६ ॥ अवटः ५ कोट्टारः ६ । इति जटाधरः ॥ कात्तः ७ कर्त्तः ८ वज्रः ९ काटः १० खातः ११ अवतः १२ क्रिविः १३ सूदः १४ उत्सः १५ ऋष्यदात् १६ कारोत- रात् १७ कुशेषः १८ केवटः १९ । इति वेद- निघण्टौ ३ अध्याये त्रयोदशकूपनामानि ॥ तस्य लक्षणं यथा, -- “भूमौ खातोऽल्पविस्तारो गम्भीरो मण्डलाकृतिः । बद्धोऽबद्धः स कूपः स्यात्तदम्भः कौपमुच्यते” ॥ इति भावप्रकाशः ॥ तज्जलगुणाः । वातकफ- नाशित्वम् । अग्निदीपनत्वम् । लघुत्वम् । पित्त- वर्द्धनत्वम् । क्षारत्वम् । शीतकाले उष्णत्वम् । उष्णकाले शीतत्वम् । वसन्तकाले प्रशस्तत्वञ्च । इति राजवल्लभः ॥ (“रूक्षं कफघ्नं लवणात्मकञ्च सन्दीपनं पित्तकरं लघूष्णम् । कूपोदकं वातहरं प्रदिष्टं हितं न शस्तं शरदो वदन्ति” ॥ इति हारीते प्रथमस्थाने ७ अध्याये ॥ कूपादिकरणफलादिकं जलाशयतत्त्वधृतादित्य- पुराणवचनम् । यथा, -- “सेतुबन्धरता ये च तीर्थशौचरताश्च ये । तडागकूपकर्त्तारो मुच्यन्ते ते तृषाभयात्” ॥ विष्णौ च । “अथ कूपकर्त्तुस्तत्प्रवृत्ते पानीये दुष्कृतार्द्धं विनश्यति” । तत्प्रवृत्ते कृतकूपा- दुत्थिते । विष्णुधर्म्मोत्तरे च । “तडागकूपकर्त्तारस्तथा कन्याप्रदायिनः । छत्रोपानहदातारस्ते नराः स्वर्गगामिनः” ॥ तथा, नन्दिकेश्वरपुराणे । “यो वापीमथवा कूपं देशे तोयविवर्ज्जिते । खानयेत् स दिवं याति विन्दौ विन्दौ शतं समाः” ॥ तत्संस्कारकर्त्तुरपि फलमुच्यते विष्णौ । यथा, -- “कूपारामतडागेषु देवतायतनेषु च । पुनः संस्कारकर्त्ता च लभते मौलिकं फलम्” ॥ परं जलशून्यदेशखनने एव प्रतिष्ठा न तु पङ्को- द्धारमात्रे । “अजले जलमुत्पाद्य” इति वचनात् ॥) गर्त्तः । गुणवृक्षः । नदीमध्यस्थितो वृक्षः पर्व्वतो वा । इत्युणादिकोषः । कूपकः । कूपा इति भाषा । मृन्मानम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूप पुं।

कूपः

समानार्थक:अन्धु,प्रहि,कूप,उदपान

1।10।26।2।3

आहावस्तु निपानं स्यादुपकूपजलाशये। पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा॥

अवयव : कूपस्यान्तरे_रज्ज्वादिधारणार्थदारुयन्त्रः,कूपमुखे_इष्टकादिभिर्बद्धः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कू(कु)प¦ दौर्बल्ये अद॰ चुरा॰ उभ॰ अक॰ सेट्। कू(कु)पय-ति--ते अचुकू(कु)पत् त। कू(कु)पयां बभूप आस च-कार चक्रे।

कूप¦ पु॰ ईषत् आपो यत्र अच् समा॰, कुवन्तिमण्डूकाः अस्मिन् कू--पक दीर्घश्च वा।

१ खनामख्याते[Page2165-a+ 38] जलाधार, अमरः तल्लक्षणं भावप्र॰ उक्तं यथा।
“भूमौखातोऽल्पविस्तारो गम्भीरो मण्डलाकृतिः। बद्धो-ऽबद्धः स कूपः स्यात् तदम्भः कौपमुच्यते। कौपंपयोयदि स्वादु त्रिदोषघ्नं हितं लघु। तत् क्षारंकफवातघ्नं दीवनं पित्तकृत् परम्”। कूपस्येदम् अण्। कौप तत्सम्बन्धिनि त्रि॰ स्त्रियां ङीप्।
“प्रायेणास्यशिशोः पिता न विरसाः कौपीरपः पास्यति” सा॰ द॰। कूपादिकरणफलादिकम् जलाश॰ त॰
“सेतुबन्धरता ये चतीर्थशौचरताश्च ये। तडागकूपकर्त्तारोमुच्यन्ते तेतृषाभयात्” आदित्य पु॰।
“अथ कूपकर्त्तुस्तत्प्रवृत्तेप्रानीये दुष्कृतार्द्धं विनश्यति” विष्णुः। तत्प्रवृत्तेकृतकूपादुत्थिते।
“तडागकूपकर्त्तारस्तथा कन्या-प्रदायिनः। छत्रोपानहदातारस्ते नराः स्वर्गगामिनः” विष्णुध॰।
“यो वापीमथ वा कूपं देशे तोयविवर्ज्जिते। खानयेत् स दिवं याति विन्दौ विन्दौ शतं समाः” नन्दिपुं॰
“कूपारामतडागेषु देवतायतनेषु च। पुनः संस्कारकर्त्ता च लमते मौलिकं फलम्” विष्णुः
“संस्कार-विधौ
“अजले जलमुऽपाद्य इति वचनात् जलशून्य-देशखनन एव प्रतिष्ठा न तु पङ्कोद्धारमात्रे।
“प्रासादे-ऽप्येवमेवं स्यात् कूपवापीषु गम्यते” जलाश॰ त॰ धृतवचनाच्च तत्र वास्तुयागः कार्य्यः। तज्जलञ्च
“शीत-काले भवेदुष्णं ग्रोष्मकाले सु शीतलम्। वसन्ते तु प्रश-स्तं स्यात् कालभेदात् गुणत्रयम्” राजवल्लभः
“प्रेक्षादि॰चतुरर्थ्यं इनि। कूपिन् तत्सन्निकृष्टदेशादौ त्रि॰स्त्रियां ङीप्।

२ गर्त्ते उणादिकोषः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूप¦ r. 10th cl. (कूपयति)
1. To be weak.
2. To weaken: see कुप।

कूप¦ m. (-पः)
1. A well.
2. A hole, a hollow.
3. A mast.
4. A tree or rock in the midst of a river. f. (-पी)
1. A small well.
2. The navel.
3. A flask, a bottle. E. कु to sound, (frogs croaking in a well, &c.) and प Unadi affix: the vowel is made long; also कूपक।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूपः [kūpḥ], [कुवन्ति मण्डूका अस्मिन्, कु-पक् दीर्घश्च Uṇ.3.27]

A well; कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् Bh.2.49; so नितरां नीचो$स्मीति त्वं खेदं कूप मा कदापि कृथाः । अत्यन्तसरस- हृदयो यतः परेषां गुणग्रहीतासि Bv.1.9.; प्रोद्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः Bh.3.88.

A hole, cave, hollow, cavity; as in रोमकूप; Śi.7.74.

A leather oil-vessel.

A post to which a ship is moored.

A tree or rock in the midst of a river.

A mast.

A pore, root; हृष्यन्ति रोमकूपाणि Mb.6.112.16; Śi.13.13.

पी A small well.

A flask, bottle.

The navel.-Comp. -अङ्कः, -अङ्गः horripilation. -कच्छपः, म (मा) ण्डूकः -की (lit.) a tortoise or frog in a well; (fig.) an inexperienced person, one who has had no experience of the world at large, a man of limited ideas who knows only his own neighbourhood; oft. used as a term of reproach; यद्यसौ कूपमाण्डूकि तवैतावति कः स्मयः Bk.5.85.-कारः, -खानकः a well-digger; कूपखानकवदेतद् भविष्यति Mbh. on P.1.1.1; Rām.2; कूपखानकवत्प्राप्ते फले दोषं निहन्ति च Ks.66.134. -चक्रम् A water weeel. -दण्डः a mast; क्षोणीनौ कूपदण्डः Dk.1.1. -यन्त्रम् a water-wheel, a contrivance for raising water from a well. -यन्त्रघटी-घटिका a bucket or pot attached to the water-wheel to draw up water. ˚यन्त्रघटिकान्याय see under न्याय. -स्थानम् A well; दशकुली वाटं कूपस्थानम् Kau. A.2.4; एष क्रीडति कूपयन्त्रघटिका- न्यायप्रसक्तो विधिः Mk.1.6.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूप m. (fr. 1. कुand अप्? ; See. अनूप, द्वीप) , a hole , hollow , cave RV. i , 105 , 17 AV. S3Br. etc.

कूप m. a pit well S3a1n3khGr2. Mn. Mr2icch. etc.

कूप m. a post to which a boat or ship is moored L.

कूप m. a mast L.

कूप m. a tree or rock in the midst of a river L.

कूप m. a leather oil vessel L.

कूप m. = मृन्-मानL.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Kūpa^1  : m.: A sacred well, not named, in the Gaṅgā.

Situated near the Gaṅgāhrada; there are three crores of tīrthas in that well (tisraḥ koṭyas tu tīrthānāṁ tasmin kūpe); by bathing there one goes to heaven 3. 81. 153. [See Udapāna and Kūpa^2 ]

_______________________________
*1st word in right half of page p314_mci (+offset) in original book.

Kūpa^2  : m.: A sacred well, not named.

It is near the sacred place called Jyeṣṭhasthāna 3. 83. 59-60; described as famous (viśruta) 3. 83. 60; all the four oceans are present in this Kūpa; by bathing there (upaspṛśya) and by circumambulating it (kṛtvā cāpi pradakṣiṇam), a person who has controlled his self (niyatātmā) is purified and acquires the highest state (after death) (paramāṁ gatim) 3. 83. 61. [See Udapāna and Kūpa^1 ]

_______________________________
*2nd word in right half of page p314_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=कूप&oldid=454490" इत्यस्माद् पुनः प्राप्तिः