कूर्च्च
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूर्च्चम्, क्ली, (कुर्य्यते इति कुर् बाहुलकात् चट् निपा- तनात् दीर्घः ।) मलापकर्षार्थकेशादिमुष्टिः । कु~चि इति भाषा । यथा, -- नरसिंहपुराणे । “ततः समर्पयेत् कूर्च्चमुशीरादिविनिर्म्मितम् । मलापकर्षणाद्यर्थं श्रीमन्मूर्त्त्यङ्गसन्धितः” ॥ विष्णुधर्म्मोत्तरे च । “उशीरकूर्च्चकं दत्त्वा सर्व्वपापैः प्रमुच्यते । दत्त्वा गोदालजं कूर्च्चं सर्व्वांस्तापान् व्यपोहति । दत्त्वा चामरकं कूर्च्चं श्रियमाप्नोत्यनुत्तमाम्” ॥ इति श्रीहरिभक्तिविलासस्य ६ विलासे ४८ श्लोकः ॥
कूर्च्चः, पुं क्ली, (कुर् + चट् निपातनात् दीर्घः ।) भ्रुवोर्मध्यम् । भ्रूद्वयमध्यस्थानम् । इत्यमरः । २ । ६ । ९२ ॥ मयूरपुच्छमुष्टिः । कुशमुष्टिः । इति हरिवंशे पुण्यकव्रतटीकायां नीलकण्ठः ॥ कठि- नम् । श्मश्रु । कैतवम् । इति मेदिनी ॥ विकत्थ- नम् । दम्भः । क्षिप्रोपरिभागः । स तु अङ्गुष्ठाङ्गु- लिमध्यस्य उपरिभागः । इति हेमचन्द्रः ॥ हूं वीजम् । इति तन्त्रम् ॥ (यथा, कर्पूरस्तवे “वर्गाद्यं वह्निसंस्थं विधुरतिवलितं तत्त्रयं कूर्च्चयुग्मम्” ॥ तथा, भैरवतन्त्रे । “कालीवीजद्वयं देवि ! दीर्घं हूंकारमेव च । त्र्यक्षरी सा महाविद्या चामुण्डा कालिका स्मृता” ॥)
कूर्च्चः, पुं, (कुर् + बाहुलकात् चट् निपातनात् दीर्घः ।) शीर्षम् । इति धरणी ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूर्च्च¦ पुंन॰ कुर्य्यते कुर--चट् नि॰ दीर्घः!
१ भ्रुवोर्मध्ये स्थितेलोमोच्चये, अमरः
२ श्मश्रुणि,
३ कैतले, मेदि॰
४ दम्भे
५ मयू-रपुच्छे
६ कुशमुष्टौ
७ अङ्गुष्ठाङ्गुलिभध्यस्योपरिभागे
८ शीर्षे,शब्दचि॰
९ आसनभेदे, तन्त्रोक्ते
१० वीजभेदे (हूम्) च। कूर्चवीजन्तु हूमित्येव।
“ईशानः सेन्दुवामश्रवणपरि-गतो वीजमन्यन्महेशि! द्वन्द्वं ते मन्दचेता यदि जपतिजनो वारमेकं कदाचित्” इति कर्पूरस्तवे तदुद्धारः।
“वर्गाद्यं वह्निसंस्थं विधुरतिवलितं तत्त्रयं कूर्च्च-यु{??}म्” तत्रेव! भैरवतन्त्रे
“कालीवीजद्वयं देवि!दीर्घं हूङ्कारमेव च। त्र्यक्षरी सा महाविद्या चामुण्डाकालिका स्मृता”।
११ कठिने त्रि॰।
१२ विकत्थने हेमच॰।
१३ मलापकर्षनार्थे(कुर्चि)ख्याते पदार्थे
“ततःसमर्पयेत् कूर्च्चमुशीरादिविनिर्म्मितम्। मलापकर्षणाद्यर्थं श्रीमन्मू-र्त्त्यङ्गसन्धितः”
“उशीरकूर्चकं दत्त्वा सर्वपापैः प्रमुच्यते। दत्त्वा गोबालजं कूर्चं सर्व्वान् तापान् व्यपोहति। दत्त्वा चामरकं कूर्चं श्रियमाप्नोत्यनुत्तमाम्” नरसिं॰पु॰। तत्रासनभेदे
“किं स्रुचं परिभृज्य कूर्चे न्यमार्जीत्” शत॰ ब्रा॰
“तद्यत् स्रुचं परिमृज्य कूर्चे न्यमार्जिषम्” शत॰ ब्रा॰
११ ,
३ ,
५ ,
३ , मुञ्जानाञ्च कूर्चमध्वर्यवे संस्फुर्वन्ति” सांख्या॰ श्रौ॰ सू॰
“स्फ्यश्च कूर्चश्च सौवर्ण्णः” भा॰ आश्व॰
२०
९२ श्लो॰ स्वार्थेक। तत्रार्थे
“मृदुना वा दन्तधावनकूर्त्तकेनापनयेत्” सुश्रु॰ अस्त्यर्थे इनि। कूर्चकिन्[Page2166-a+ 38] सूच्यग्राकारयुक्ते त्रि॰।
“कूर्चकिनोऽभ्यन्तरमुपरिष्टाद्वा” सुश्रु॰ चूडा॰ लच्कूर्चलः। श्मश्रुयुक्ते त्रि॰।
१४ पञ्चगव्येकृच्छ्रशब्दे विवृतिः
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूर्च्च¦ mn. (-र्च्चः-र्च्चं)
1. The upper part of the nose, the part between the eye-brows.
2. The beard.
3. Deceit, fraud, circumvention.
4. Hard, solid.
5. The tip of the thumb and middle finger brought in contact, as to pinch, &c.
6. A handful of Kusa grass or peacock's feathers.
7. A bunch, a bundle, as of grass &c.
8. A brush of the same.
9. The head.
10. False praise, unmerited commendation, either of one's self or another person, boasting, flattery.
11. Hypocrisy.
12. The mystic syllable Hum. (In Tan: shas.) E. कूर् to sound, चङ् affix, or कृ to do, उर्च्च affix or कूर्च्च Sautra root, to praise, affix घञ्।
