कूर्च्चः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूर्च्चः, पुं क्ली, (कुर् + चट् निपातनात् दीर्घः ।) भ्रुवोर्मध्यम् । भ्रूद्वयमध्यस्थानम् । इत्यमरः । २ । ६ । ९२ ॥ मयूरपुच्छमुष्टिः । कुशमुष्टिः । इति हरिवंशे पुण्यकव्रतटीकायां नीलकण्ठः ॥ कठि- नम् । श्मश्रु । कैतवम् । इति मेदिनी ॥ विकत्थ- नम् । दम्भः । क्षिप्रोपरिभागः । स तु अङ्गुष्ठाङ्गु- लिमध्यस्य उपरिभागः । इति हेमचन्द्रः ॥ हूं वीजम् । इति तन्त्रम् ॥ (यथा, कर्पूरस्तवे “वर्गाद्यं वह्निसंस्थं विधुरतिवलितं तत्त्रयं कूर्च्चयुग्मम्” ॥ तथा, भैरवतन्त्रे । “कालीवीजद्वयं देवि ! दीर्घं हूंकारमेव च । त्र्यक्षरी सा महाविद्या चामुण्डा कालिका स्मृता” ॥)
कूर्च्चः, पुं, (कुर् + बाहुलकात् चट् निपातनात् दीर्घः ।) शीर्षम् । इति धरणी ॥
