सामग्री पर जाएँ

कूर्च्चम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूर्च्चम्, क्ली, (कुर्य्यते इति कुर् बाहुलकात् चट् निपा- तनात् दीर्घः ।) मलापकर्षार्थकेशादिमुष्टिः । कु~चि इति भाषा । यथा, -- नरसिंहपुराणे । “ततः समर्पयेत् कूर्च्चमुशीरादिविनिर्म्मितम् । मलापकर्षणाद्यर्थं श्रीमन्मूर्त्त्यङ्गसन्धितः” ॥ विष्णुधर्म्मोत्तरे च । “उशीरकूर्च्चकं दत्त्वा सर्व्वपापैः प्रमुच्यते । दत्त्वा गोदालजं कूर्च्चं सर्व्वांस्तापान् व्यपोहति । दत्त्वा चामरकं कूर्च्चं श्रियमाप्नोत्यनुत्तमाम्” ॥ इति श्रीहरिभक्तिविलासस्य ६ विलासे ४८ श्लोकः ॥

"https://sa.wiktionary.org/w/index.php?title=कूर्च्चम्&oldid=128083" इत्यस्माद् प्रतिप्राप्तम्