कूर्च्चिका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूर्च्चिका, स्त्री, (कूर्च्चाकारोऽस्त्यस्याः । कूर्च्च + ठन् ।) क्षीरविकृतिः । क्षीरसा इति भाषा । इत्यमरः । २ । ९ । ४४ ॥ सा द्विधा यथा, -- “दध्रा सह च यत् पक्वं क्षीरं सा दधिकूर्च्चिका । तक्रेण पक्वं यत् क्षीरं सा भवेत्तक्रकूर्च्चिका” ॥ इति भरतः ॥ (“कूर्च्चिका विकृता भक्ष्या गुरवो नातिपित्तलाः” ॥ इति सुश्रते सूत्रस्थाने ४६ अध्याये ॥) सूचिका । सू~च इति भाषा । तूलिका । तुली इति भाषा । कुद्मलः । कु~डि इति भाषा । कुञ्चिका । कु~जि इति भाषा । इति हेमचन्द्रो मेदिनी च ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूर्च्चिका¦ f. (-का)
1. Inspissated milk.
2. A key.
3. A bud, a blossom.
4. A painting brush or pencil.
5. A needle. E. कूर्च्च् to praise, &c. वुन् affix, and the fem. form.
